________________
શ્રીનેનમા લક્ષ્મવાસ્થ્ય મદાાવ્યમ્ દીાલમ ંદ્યુતમ્ ॥ લર્નઃ ૮ (૨૦૧
I
(०या० ) तदिति । तद्भूः तेभ्यः स्वप्नेभ्यो भवतीति तद्भूः स्वप्नसमुत्पन्नः हर्षामृतरसभरः हर्ष एवं अमृतस्य रसस्तस्य भर अस्य लोकत्रातु लोकानां त्राता तस्य त्रिभुवनपालकस्य भगवत' स्वान्तानूपात् स्वान्तं चित्तमेव अनूप ( अनोर्देशे उप् । ३-२-११० । इ. सू. अनो. परस्य अपो देशेऽर्थे उप् ।) सजलप्रदेशस्तस्मात् शिरासारणीभिः शिरा एव सारण्यः प्रणाल्यस्ताभिः अखिले समस्ते क्षेत्र प्रदेशे क्षेत्रस्य शरोरस्य प्रदेशे युगपत् समकालं असृपत् प्रासरत् । इतरथा तत्र क्षेत्र प्रदेशे सद्यस्तत्कालं कथं लोमबर्हि प्ररोह: लोमानि एवं बर्हिषो -दर्भाः तेषां प्ररोहा अड्कुरास्तैः लोमरूपदमकुरे उल्लसितम् । किंलक्षणैः लोमबहिः प्ररोहै' असिता कृष्णा छाया कान्तिर्येषां ते असितच्छाया सूक्ष्गाश्वते अग्रभागाश्च सूक्ष्माग्रभागा· असितच्छायाः सूक्ष्माग्रभागा येषां तै. ॥ ६६ ॥
युग्ममुल्लसितमुच्छ्वसितां तनुं च, चश्चन्मतिद्रढिमधाम सुमङ्गला सा। दृष्ट्वाद्भुतं वरपितुर्वचनं विनापि, स्वप्नान्महाफलतयान्वमिमीत सर्वान् ६७
(०या० ) दृगिति । सा सुमङ्गला वरयितु श्री ऋषभदेवस्य वचनं (विना ते तृतीया च । २-२-११५ । इ. सू. विनायोगे वचनं इत्यत्र द्वितीया । ) विनापि दृग्युग्मं दृशोर्नेत्रयोर्युग्मं युगलं उल्लसितं दृष्ट्वा च तनुं शरीरमुच्छ्वसितां दृष्ट्वा सर्वान् स्वप्नान् महाफलतया महत् च तत् फल च तस्य भावो महाफलता तया अन्वमिमीत अनुमानेन ज्ञातवती । किंविशिष्टा सुमङ्गला चश्ञ्चन्मति दृढिमधाप चञ्चन्ती चासौ मतिश्च चञ्चन्मतिः प्रसरन्मति तस्था द्रढिमा (वर्णदृदादिभ्यष्टयण् च वा । ७- १ - ५९ । इ. सू. भावे दृढशब्दात् इमन् । त्र्यन्तस्वरादे । ७-४-४३। इ सू. अन्त्यस्वरलोपः । दृढस्य भावो द्रढिमा ) दृढता तस्य धाम स्थानम् ॥ ६७ ॥
1
sia सा स्वामिनो मौनमुद्रा - भेदं वृष्णालुर्वाक्सुधायास्तथापि । धनोत्कंठां गर्जिते के किनी किं, मेघस्योन्नत्या ज्ञातवर्षागमापि ॥ ६८॥ इतिश्री अञ्चल गच्छेशश्रीजय शेखरसूरिविरचिते श्रीजैन कुमारसंभवमहाकाव्ये चतुर्दशमहास्वनावधारणावर्णनो नामाष्टमः सर्गः समाप्तः ॥