________________
भोजनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. ८ (२७३ शङ्का यस्मिन् कर्मणि यथा भवति तथा नि शक सदेह भिदां संदेहस्य भिद । तां संशयभेदं न कुर्मः । वा अथवा कः पुमान् काश्चनसिद्धिं काञ्चनस्यसिद्धिस्तां सुवर्णसिद्धि (विनाते तृतीया च २ - २ - ११५ । इ. सू. विनायोगे द्वितीया । ) विना उर्वी गुर्वी उर्वी पृथ्वी अनृणां न विद्यते ऋणं यस्या यस्यां वा सा तां ऋणरहितामाधातु - कर्तुं यतेत उपक्रमेत ॥ ६१ ॥ तस्मान्मनागागमयख काल-मतित्वरा विघ्नकरीष्टसिद्धेः । इत्युक्तवास्त्यक्तमनस्तरङ्गः, क्षणं समाधत्त स मेघिरेशः ॥ ६२ ॥
( व्या० ) तस्मादिति । तस्मात् कारणात् हे प्रिये मनाकू स्तोकं कालं आगमयस्व प्रतीक्षस्व । अतित्वरा इष्टसिद्धे इष्टस्य सिद्धिस्तस्याः विन्नकरी विघ्नं करोतीत्येवंशीला इति हेतो औत्सुक्यं इष्टसिद्धेर्विनकृत् वर्तते । इति उक्तवान् सन् उवाच इत्युक्तवान् एतावता इत्युक्त्वा स मेधिरेश: मेधा प्रज्ञा अस्ति एषामिति में घिरा : ( मेघारथान्नवेर ७-२-४१ । इ सू. मत्वर्थे मेधाशब्दात् वा इर· । ) प्राज्ञास्तेषामीश भगवान् व्यक्तमनस्तरङ्ग मनसः तरङ्गो व्यापार व्यक्तो मनस्तरङ्गो मनोव्यापारो येन स सन् क्षणं समाधत्त समाधिं दधौ ॥ ६२ ॥ निमील्य नेत्रे विनियम्य वाचं, निरुध्य नेताखिलकायचेष्टाः । निशि प्रसुप्तान्ज मनादिहंसं, सरोऽवहार्षीदलसत्तरङ्गम् ॥ ६३ ॥
( व्या० ) निमील्येति । स नेता भगवान् निशिरात्रौ प्रसुप्तान् प्रसुप्तानि संकुचितानि अब्जानि कमलानि यस्मिन् तत् सकुचितकमलं । अनादिहंसे नद तीति नादिनः ननादिनोऽनादिनो हंसा यस्मिन् तत् अशब्दायमानहंस अलसतर लसन्तीति लसन्त' न लसन्तोऽलसन्तस्तरङ्गा कल्लोला यस्मिन् तत् अनुलसत्तर एवंविध सर सरोवरं अन्वहार्षीत् सरोवरस्यानुकरणं चकार । किं कृत्वा नेत्रे निमील्य वाचं विनियम्य संवृत्य अखिलकायचेष्टा कायस्य शरीरस्य चेष्टाः अखिलाच ता' कायचेष्टाश्चता समस्तशरीरचेष्टा' निरुध्य ॥ ६३ ॥ स्वप्नानशेषानवधृत्य बुद्धि - बाह्वा मनोवेत्रधरः पुरोगः । महाधियामूहसभामभीष्टां, निनाय लोकत्रयनायकस्य ॥ ६४ ॥