________________
२७२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ८ अम्बुदश्च तस्य भाव नवीनभेघसादृश्यं खलाशावल्लीविनाशाय खलानां दुर्जनानामाशा मनोरथाः ता एव वल्लयस्तासां विनाशस्तस्मै दुर्जनमनोरथरूपवल्लीविनाशाय दवस्य भावो दवावं दवानलस्वमीये प्राप्तम् ॥ ५८ ॥ नैषां फलोक्तावविचार्य युक्त-माचार्यकं कर्तुमहो ममापि । महामतीनामपि मोहनाय, छमस्थतेयं प्रबलप्रमीला ॥ ५९ ॥
(व्या०) नेति । अहो इत्याश्चर्ये एषां स्वप्नानां फलोक्तौ फलानामुक्तिस्तस्यां अविचार्य न विचार्य अविचार्य अविमृश्य ममापि आचार्यकं ( योपान्त्याद् गुरुपोत्तमादसुप्रख्यादक ७-१-७२ । इ. सू. भावे कर्मणि आचार्यशब्दात् अकम् । ) आचार्यकर्म क न युक्तं न योग्यमस्ति । इयं छमस्थता प्रबलप्रमीला प्रवलाचासौ प्रमीला च सबलनिद्रा महामतानामपि महती मतिः येषां ते महामतयस्तेषां विचक्षणानां मोहनाय वर्तते ॥ ५९ ॥ यावद् घनाभं धनघातिकर्म-चतुष्कमात्मार्यमणं स्तृणाति । तावत् तमश्छन्नतया विचारे, स्फुरन्न चेतोऽश्चति जांधिकत्वम् ॥६०
(व्या०) यावदिति । हे प्रिये घनाभं घनवत् मेधवत् आभातीति धनाभं मेवसदृशं घनघातिकर्मचतुष्कं घनघातीनि च तानि कर्माणि च धनधातीकर्माणि तेषां चतुष्कं ज्ञानावरणीयकर्म १ दर्शनावरणीयकर्म २ मोहनीयकर्म ३ अन्तरायकर्म एतत् धनधातिकर्मचतुष्कं आत्मार्यमणं आत्मा एवं अर्थमा सूर्यस्तं यावत् स्तृणाति आच्छादयति । तावत् चेतः चित्तं तमश्छन्नतया तमसा अज्ञानेन छन्नमाच्छादितं विचारे स्फुरत् सत् जांधिकार (वेतनादेर्जीवति ६-४-१५ इ. सू. जीवत्यर्थे जंघाशदात् इकण जधाभ्या जीवति इति जांधिक जांधिकस्य भावः जांविकायम् ) जघालवं परमाणत्वं न अञ्चति न प्राप्नोति ॥ ६० ॥ आकेवलाचिकलनं विशवं, वयं न संदेहभिदां विदध्मः । को वा विना काञ्चनसिद्धिमुर्वी-माधातुमुर्वीमनृणां यतेत ॥ ६१ ॥
(व्या०) आकेवल इति । हे प्रिये वयं आकेवलाचिंकलनं केवलमिति अर्थिः तस्य कलनं आकेवलार्षिकलनात् केवलज्ञानलाभं यावत् विशकं विगता