________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग: ८ (२७१
आनन्दमाकन्दतरौ हृदाल-वाले त्वदुक्तामृत सेकपुष्टे | रक्षावृतिं सूत्रयितुं किमङ्ग - ममाङ्गमुत्कण्टकता दधाति ।। ५६ ।।
( व्या० ) आनन्द इति । अङ्ग इति कोमलामंत्रणे हे सुमङ्गले मम अङ्ग शरीरं उत्कण्टकतां उत्कण्टकस्य भाव उत्कण्टकता तो उतरोमाञ्चत्वं उर्ध्व कण्टकत्वं वा किं दधाति । किं कर्तु मम हृढालवाले हृदेव आलवालस्तस्मिन् हृदयरू पस्थानके आनन्दमाकन्दतरौ आनन्द एव माक्रन्द्रतरुस्तस्मिन् हर्षरूपसहकारवृक्षे त्वदुक्तामृतसेकपुष्टे तब उक्तानि वचनानि त्वदुक्तानि तान्येव अमृतं तस्य सेकेन सिञ्चनेन पुष्टे प्रौढे सति रक्षावृति रक्षाया वृतिस्तां रक्षायैकण्टकवृतिं सूत्रयितुं कर्तुम् ॥ ५६ ॥
श्रुत्योः सुधापारणकं त्वदुक्त्या, मत्वा मनोहत्य समीपवासात् । पिंडोललोले इव चक्षुपी मे, प्रसृत्य तत्संनिधिमाश्रये ॥ ५७ ॥
( व्या० ) श्रुत्योरिति । हे प्रिये त्वदुक्या तव उक्तिर्वचनं तया त्वदीयवचनेन श्रुत्यो. कर्णयो' मनोहत्य मनो हत्वा इति मनोहत्य (कणेमनस्तृप्तौ ३-१६ । सू. तृप्यर्थे मनसो गतिसज्ञा । गतिकन्यस्तत्पुरुष ३-१-४२ । इ. सू. नित्यतत्पुरुषसमास ) मनस्तृप्तिं यावत् सुधापारणकं सुधाया पारणकं अमृताशनं मत्वा ज्ञात्वा मे मम चक्षुषी लोचने तत्संनिधिं ( सम्यनिधीयते अस्मिन् संनिधि' उपसर्गा: कि ५-३-८७ । इ. सू. संनिपूर्वकधाधातो. कि. इडेत् पुसि इति आलुक् ।) तयोः कर्णयोः संनिधिस्तं कर्णसमीपमाश्रयेते । किंविशिष्टे चक्षुषी समीपवासात् समीपस्य वासस्तस्मात् प्रत्यासन्नवासात् पिंडोललोल इव पिंडोले भुक्तशेपे लोळे लोलुपे इव ॥ ५७ ॥ एकस्वरूपैरपि मत्प्रमोद -तरोः प्ररोहाय नवाम्बुदत्वम् । स्वप्नैरभीभिः कुतुकं खलाशा - वल्लीविनाशाय दवत्वमीये ॥ ५८ ॥ ( व्या० ) एक इति । एकस्वरूपैरपि एकं स्वरूपं येषा ते अमीभिः खप्नै कुतुकमाश्चर्यम् । मत्प्रमोदतरो मम प्रमोदोहर्ष स एव तरुर्वृक्षस्तस्य मदीयहर्षवृक्षस्य प्ररोहाय अड्कुराय नवाम्बुदत्वं अम्बूनि ददातीति अम्बुद, नवश्वासौ