________________
२७०) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ८
( व्या० ) दुर्घोष इति । यैः पुरुपैर्निद्रया दुर्धोपलाला चुति - दन्तधर्मादिकं लालाया· श्चुति. श्रावः दन्तानां घर्पणं दुर्धोपश्च रौद्रस्वरेण पूत्करणं लालाश्चुतिश्र दन्तवर्षणं च तानि आदीनि यस्य तत् इत्यादि कुचिह्नरूपविकर्म आयत प्राप्यतेस्म । ते पुरुषाः ते तव स्वभव जे स्पमानां व्रज समूहस्तस्मिन् स्वमसमूहे श्रोत्रपथातिथौ श्रोत्रयो. कर्णयोः पन्थाः श्रोत्रपथ ( श्रूयते अनेन इति श्रोत्रं हुयामाश्रुवसि - स्त्र. । ४५१ इ. उ. सू. श्रुद्धातो. त्रप्रत्यय । ऋक्पू पथ्यपोऽत् । ७-३-७६ । इ सु. पथिन्शब्दात् समासान्तोत् प्रत्यय अन्त्यस्वरादे लप.) रतस्यातिथिस्तस्मिन् कर्णमार्गातियों सति एतावति श्रुते सति खलु निश्चितं स्वं आत्मीयं निन्दितारो निन्दिष्यन्ति ॥ ५३ ॥
आदौ विरामे च फलानि कल्प-बल्लेखि स्वादुविपाक्रभाजः । नेमाननेमानपि नीरजाक्षि, स्वमान् दृशः कर्मकरोत्यपुण्या ॥ ५४ ॥
( व्या० ) आदाविति । हे नीरजाक्षि नीरेजाते नीरजे ते इव अक्षिणी यस्याः सा नीरजाक्षी तस्या संबोधनं हे कमललोचने अपुण्या न विद्यते पुण्यं यस्याः सा पुण्यरहिता स्त्री इमान् चतुर्दशस्वमान् अनेमानपि न नेमे अनेमे तान् अर्धरहितानपि दृश' कर्म न करोति न पश्यतीत्यर्थ । किंविशिष्टान् इमान् आदौ (आदोयते प्रथमतया इति आदि : उपसर्गाद कि' इ. सू. आपूर्वकदाघातो. कि इडेत् पुसि इति - आलोप ) प्रथमं चान्यत् विरामं प्रान्ते कल्पवल्ले फलानीव स्वादुविपाकभाज स्वादुश्चासौ विपाकश्च तं भजन्तीति तान् ॥ ५४ ॥ निशम्य सम्यक् फलदानशौंडान्, स्वप्नानिमांस्ते वदनादिदानीम् । दक्षे ममोल्लासमय वक्षः, किं स्थानदानाय मुदां भराणाम् ||२५|| ( व्या० ) निशम्येति । हे दक्षे विचक्षणे मे मम वक्षो हृदयं इदानीमधुना ते तव बदनात मुखात् सम्यक् फलदानशौंडान् (सप्तमी शौण्डाद्यैः ३-१-८८ इ. सू. सप्तमी तत्पुरुष' । ) फलानां दाने शौंडा समर्थास्तान् इमान् चतुर्दश स्वप्नान् निशम्य श्रुत्वा मुद्रां हर्षाणां भराणां समूहानां स्थानदानाय स्थानस्य दानं तस्मै स्थितिकरणाय उल्लासं विस्तारमिदर्ति याति ॥ ५५ ॥
1