________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सगं ८ (२६७
अतीन्द्रियज्ञाननिधेस्त वेश, क्लेशाय नायं घटते विचारः । भक्तुं महाशैलतटीं घटीय-द्वजं किमायस्य तृणं तृणेढि ॥ ४५ ॥
(व्या०) अतीति । हे ईश अयं विचार. तव क्लेशाय न घटते । किविशिष्टस्य तव अतीन्द्रियज्ञाननिधे अतिक्रान्ता इन्द्रियाणि अतीन्द्रिया (प्रात्य वपरिनिरादयो गतका तक्रुष्टालानकान्ताद्यर्था प्रथमाद्यन्तै ३-१-४७ इ स. तत्पुरुषसमासः) इन्द्रियातीतपदार्थास्तेषां ज्ञानस्य निधिस्तस्य इन्द्रियातीतज्ञाननिधानस्य । महाशैलती महांश्चासौ शैलश्च तस्य तटी तां महापर्वततट भक्तुं भेत्तुं घटीयत् घट इस आचरतीति घटीयति घटीयतीति घटीयत् घट इवाचरत् वज्रं कि आयस्य आयसित्वा इति आयस्य अपक्रम्य तृणं तृणेढि छिनत्ति अपि तु आयास विनैव ॥ ४५ ॥ उद्भूतकौतूहलया रयेणा-जागयथास्तन्मयि मास कुप्यः । कालातिपातं हि सहेत नेत-न कौतुकावेशवशस्त्वरीव ॥ ४६॥
(व्या०) उद्भतेति । हे नाथ रयेण वेगेन मया उद्भूतकौतूहलया उद्भूतं उत्पन्न कौतूहलं यस्या सा तया उत्पन्नकौतुकया त्वं अजागर्यधाः जागरितः । तन्मयि विषये मास्म कुप्य कोपं मा कार्षीः । हे नेत. स्वामिन् कौतुकावेशवशः कौतुकस्य आवेशस्तस्य वशोऽधीन पुमान् कौतुकाक्षिप्त त्वरीव त्वरा अस्यास्तीति त्वरीव उत्सुक इच कालातिपातं कालस्य अतिपात: विलंबस्तं कालविलंब हि निश्चितं न सहेत ॥ ४६॥ श्रुत्वा प्रियालापमिति प्रियायाः, प्रीति जगन्वान् जगदेकदेवः ।। वाच मृदुस्वादुतया सुधाब्धि-गर्भादिवाप्तप्रभवामुवाच ॥ ४७ ॥
(व्या०) श्रुत्वेति । जगदेकदेव. एकश्चासौ देवश्च एकदेवः ( पूर्वकालैकसर्वजरत्पुराणनवकेवलम् ३-१-९७ इ. सू कर्मधारयसमास । ) जगति एक देव जगदेकदेव श्रीयुगादीशो वाचमुवाच उक्तवान् । किविशिष्टां वाचं मृदुस्वादुतया मृदुच स्वादुच मृदुस्वादुनी तयोर्भावस्तया सुधाब्धिगर्मात् सुधाया अमृतस्य अब्धि समुद्रस्तस्यगर्भात् मध्यात् अमृतसमुद्रमध्यात् आतप्रभवामिव