________________
२६८) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ८
आप्तः प्रभवो यया सा तामिव । किंलक्षणो जगदेकदेव प्रियायाः सुमङ्गलायाः इति प्रियालापं प्रियश्चासौ आलापश्च तं अभीष्टवचनं श्रुत्वा प्रीतिं जगवान् जगाम इति जगन्वान् गम् घातो. क्वसौ प्रत्यये द्वित्वे पूर्वगस्य जत्वे गमहनविद्लविशदृशो वा इ. स. विकल्पेन इट् इडभावे 'मोनोम्बोश्च इति सत्रेण मस्थ नकारे कृते सिविभक्तौ जगवान् -इति प्रथमैकवचनं सिद्धम् ॥ ४७ ॥ प्रिये किमेतजगदे मदेका-त्या त्वया हन्त तटस्थयेव । त्वदुक्तिपानोत्सव एव निद्रा-भङ्गास मे दस्यति वैमनस्यम् ॥ ४८॥
(व्या०) प्रिये इति । हे प्रिय हन्त इति वितर्क त्वया तटस्थया ( स्थापास्नात्र कः ५-१-१४२ इ. सू तादपूर्वकस्थाधातो. कः । इडेत् पुसिचातो लुक् इत्याकार लोप. । ) समीपस्थया इव किमेतत् जगदे ( गदधातोः कर्मणि परोभा । ) प्रोक्तम् । किं विशिष्टया त्वया मदे कात्मया मया सह एक
आत्मा यस्याः सा तया हे प्रिये त्वदुक्तिपानोत्सवः तव उक्तेर्वचनस्य पानस्य उत्सव एव मे मम निदामझस्य निद्राया भङ्गस्तस्य वैमनस्य विमनसो भावो वैमनस्यं तत् मनोव्यथा दस्यति स्फेटयति ॥ १८ ॥ निद्रा तमोमय्यपि किं विगेया, सुस्वमदानात् परमोपकी । जाये जगजीवनदातुरब्दा-गमस्य को निन्दति पङ्किलत्वम् ।। ४९ ।।
(व्या०) निद्रेति । हे जाये हे प्रिये तमोमय्यपि तम एव तमोमयी निद्रा कि विगेया निन्या स्यात् अपि तु नैव । किंलक्षणा निद्रा सुखानदानात् (सु पूजाथाम् ३-१-४४ इ सू. तत्पुरुषसमास । ) शोभना स्वभास्तेषां दानात् परमोपकी परमा चासौ उपकी च उपकरोतीति उपकी शोभनस्वप्नदानतः परोपकारकारिणी । जगजीवदातु ददातीति दाता जीवनस्य जलस्य दाता जगतो जोवनदाता तस्य जगजलदायकस्य अब्दागमस्य वर्षाकालस्य पङ्किलावं (नीह्य. थेतुन्दादेरिलश्च ७-२-९ इ स. मत्वर्थे पशदात् इलप्रत्यय । पङ्क अस्ति अस्य इति पकिल पकिलस्य भाव पकिलल्वम् । ) पङ्किलभाव पङ्किलत्वं तत् कर्दमयुक्त को निन्दति अपि तु न कोऽपि ॥ ४९॥