SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २६६) श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ८ (व्या०) यदिति । यत् यस्मात् कारणात् दीपगौरद्युतिभास्कराणां दीपश्च प्रदीप: गौरद्युतिश्च चन्द्रः भास्करश्च (सल्याऽहर्दिवाविभानिशाप्रभामाश्चित्र-टः ५-१-१०२ । इ. सू. भास्ाब्दपूर्वक्रधातोः ट प्रत्ययः । ) सूर्यः तेषां प्रकाशभासामपि प्रकाशा भाः येषां तेषामपि प्रकटतेजसामपि हार्द हृदयस्येदं हार्द हृदयसंबंधि तमोऽन्धकार दुर्यपोहं दु खस्फेटनीयं वर्तते । हे ईश हे स्वामिन् तद् हार्द तमः तव वाग्मतेजः वाचां ब्रह्म ज्ञानं तस्य-तेज वचनज्ञानसक तेज तन्वपि सूक्ष्ममपि भणतः क्षणादेव क्षिणोति क्षयं नयति ॥ ४२ ॥ यत्र कचिद्वस्तुनि संशयानाः, स्मरन्ति यस त्रिदशेशितारः। तत्रांतिकस्थे त्वयि शास्त्रदृश्वा, मानाहै नार्हत्य परोऽनुयोक्तुम् ॥४३॥ (व्या०) यत्रेति । हे नाथ त्रिदशेशितार• त्रिदशानां देवानामीशितारः इन्द्रा यत्र कचिद् वस्तुनि संशयाना संशेरते इति संशयाना संदेहं दधाना यस्थ तब स्मरन्ति । हे मानाह ( अर्होऽच् ५-१-९१ इ. सू. मानपूर्वकअहंधातोः अच्प्रत्ययः । ) मानमर्हतीति तस्य संबोधनं हे पूजायोग्य तत्र वस्तुनि त्वयि अन्तिकस्थे सति समीपस्थे सति अपर शास्त्रदृश्वाश कनिप् ५-१-१६६ इ. सू. शास्त्रव्याप्यपूर्वक दृश्धातोः भतेऽर्थे कनिप्प्रत्ययः । ) शास्त्राणि दृष्टवानिति शास्त्रदृश्वी सर्वशास्त्रविशारद अनुयो प्रष्टुं नाहीत योग्यः न स्यात् ॥४३॥ हकर्मघातीनि तमांसि हत्वा, गोभिर्बभूवान् भुपि कर्मसाक्षी। इदं हृदन्तर्मम दीप्रदेह, संदेहरक्षः स्फुरदेव रक्ष ।। ४४ ॥ (व्या०) दृगिति । हे दीप्रदेह दीप्रो देहो यस्य स दीप्रदेहत्तस्य संबोधनं हे दोप्यमानशरीर त्वं इदं संदेहरक्ष संदेह ५५ रक्ष. तत् मम हृदन्त हृदयमध्ये स्फुरत् स्फुरतोति प्रसरदेव रक्ष । किं विशिष्टस्त्वं गोभिर्वचोभि किरण । कर्मघातीनि दृष्ट कर्म कर्म ज्ञान किया दर्शनक्रिया वा तस्य धातीनि विनाशकानि तमांसि पापानि अन्धकाराणि वा हत्वा भुवि पृथिव्यां कर्मसाक्षी कर्मणां साक्षी ( साक्षाद् दृष्टा ७-१-१९७ इ. सू. साक्षात् अव्ययात् द्रष्टा इत्यर्थे इन्प्रत्यय ।) पक्षे कर्मसाक्षी श्रीसूर्य बभूवान् बभव इति बभूवान् ( तत्रकसुकानौ तद्वत् ५-२-२ इ. सू. भधातोः परोक्षे क्वसुः ।) जात ॥४४॥
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy