________________
श्रीजैनकुमारसम्भवाख्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ८ (२६५
गदा वपुः कुंभगदाभिघाता, नासंस्तदा त्वनिगदागदाप्त्या | अजातशत्रु' पतिमाश्रिताया- स्त्वां मे कुतः संभव एव भीतेः ||३९|| ( व्या० ) गदा इति । हे नाथ गदा वात पित्तश्लेष्माणो रोगा मे मम तदा तस्मिनवसरे त्वन्निगदागदाप्या तव निगदो नाम स एव अगद ओषधं तस्य आप्या लाभेन न आसन् । किंविशिष्टा गदा वपु कुंभगदाभिघाताः कुंभो घटः तस्य गढ़ाया अभिधाता गदाप्रहारसदृशाः । अजातशत्रुं न जाताः अजाता. शत्रवो यस्य तं गतवैरिणं त्वां पतिं भर्तारमाश्रिताया मे मम भीतेर्भयस्य संभव उत्पत्तिरेव कुत ( इतोऽत कुतः ७-२-९० इ. सू कुत' तसन्तो निपातः । ) स्यात् अपि तु न कुतोऽषि ॥ ३९ ॥
एवं सुखाखादरसोर्जितायां, मनस्तनुक्लेशविवर्जितायाम् । स्वमैर्बभूवे मयि यैस्तदर्थ-मीमांसया मांसलय प्रमोदम् ॥ ४० ॥
( व्या० ) एवमिति । हे नाथ ये स्वप्नैर्मयि बभूवे । तदर्थमीमांसया तेषां स्वमानामर्थस्य मीमांसया विचारणया हर्ष मयि विषये मांसलय (मांसमस्ति अस्य इति मांसल : | सिम्मादिक्षुद्रजन्तुरुग्भ्य ७ - २- २१ इ. सू मत्वर्थे ल । ) पोपय । किंविशिष्टायां मयि एवं सुखास्वादरसोर्जिताया एवं पूर्वोक्तप्रकारेण सुखम्य आस्वादस्य आस्वादस्य रसेन ऊर्जितायां बलिष्ठाया । पुन मनस्तनु+लेशविवर्जितायां मनश्च तनुश्च शरीरं तयो क्लेशेन विवर्जितायां मानसिकशारीरिक्+लेशरहितायाम् ॥ ४० ॥
सूक्ष्मेषु भावेषु विचारणायां, मेधा न मे धावति बालिशायाः । त्वमेव सर्वज्ञ ततः प्रमाणं, रात्रौ गृहालोक इव प्रदीपः ॥ ४१ ॥
( व्या० ) सूक्ष्मे५ इति । हे नाथ बालिशाया मूर्खाया मे मम मेधा बुद्धि सूक्ष्मेंपु भावेपु विचारणायां न धावति । हे सर्वज्ञ सर्व जानातीति तस्य संबोधनं ततस्तस्मात्कारणात् त्वमेव प्रमाणमसि । क इव प्रदीप इव यथा प्रदीपो गृहालोके गृहस्य आलोक' प्रकाशस्तस्मिन् प्रमाणं स्यात् ॥ ४१ ॥ यद्दीपगौरद्युतिभास्कगणां, प्रकाशभासामपि दुर्व्यपोहम् ।
हार्दं तमस्तत्क्षणतः क्षिणोति, वाग्ब्रह्मतेजस्तव तन्वपीश ॥ ४२ ॥