________________
२६४) श्रीजैनकुमारसम्भवायं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ८
(व्या०) आकृतमिति । हे नाथ तदा तस्मिन्नवसरे परिष्दोऽपि परिपारोऽपि स्वैरचारी स्वैरं चरतीति इति कारणात् मदीयं मम इदं मदीयं तत् मामकं मनो हृदयं न दुनोति स्म खेदयुक्तं नाकरोत् किंलक्षण: परिछ६: अक्षिश्रुपचेष्टयैव अक्षिणी च भ्रुवौ च एतासां समाहार अक्षिवं (* सामान्यजुषधेपहवाड्मनसाऽहोरात्ररात्रिंदिवनांदिवाऽहर्दिवोर्वष्ठीवपदष्ठीवाक्षिभ्रुवदारगवम् । ७-३-९७ । इ. मू. अक्षिभ्रुवं अदन्तद्वन्द्वो निपातः ।) तस्य चेष्टा तया अक्षिभ्रवचालनयैव हादै हृदयस्येदं तत् आफूतमभिप्रायं विबुध्य ज्ञा-या अखिलकर्मकारी अखिलानि च तानि कर्माणि च अखिलकर्माणि तानि करोतीत्येवंशील: समस्त कार्यकृत् ॥ ३६॥ अपि द्वितीयाद्वितये विभज्य, चित्तं च विच च समं समीचा। स्वया न सापत्न्यभवोऽभिभूति-लवोऽपि मेऽदत्त तदानुतापम् ॥३७॥
(व्या०) अपीति । हे नाथ तदा तस्मिन्नवसरे सापल्यभव' सपन्या भावः सापल्यं तस्मात् भव सपल्या उत्पन्नोऽभिमूतिलवोऽपि अभिभूतेः पराभवस्य लयो लेशोऽपि मे मम अनुतापं विषादं नादत्त । केन हेतुना त्वया द्वितीया(देस्तीयः । ७-१-१६५ । इ. सू. द्विशब्दात् संख्यापूरणे तोयप्रत्य ) द्वितयेऽपि द्वितीययोर्भार्ययोर्द्वितयं तस्मिन् कलत्रद्विकेऽपि चित्तं च पुनर्वित्तं समं समकालं विभक्त्वा इति विभज्य विभागीकृत्य समीचा सम्यग् अञ्चतीति सभ्यङ् तेन समीचा सम्यग् अञ्चता । अञ्चौ गतौ समपूर्वकः 'सह सम सघ्रि समि इति सम्यादेशः ॥ ३७ ॥ आसीन्न मे वर्मणि मारुतादि-प्रकोपतः कोऽपि तदा विकारः। त्वयि प्रसन्ने न हि लब्धवाधा, मिथः पुमर्था इव धातवोऽपि ॥३८॥
(व्या०) आसीदिति हे नाथ तदा तस्मिन्नवसरे मे मम वर्मणि शरीरे मारूतादिप्रकोपत मारुतोवायुरादिर्यषांते मारुतादयः तेषां प्रकोपात् इति प्रकपतः कोऽपि विकारों नासीत् नाभत् त्वयि प्रसन्ने सति धातवोऽपि पुमर्था इव मिथ' परस्परं लव्वबाधा नहि लब्धा बाधायैस्ते लब्धपीडा. नहिवर्तन्ते ॥३८॥