________________
भीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ८ (२६३
देशः ।) तव नाम एव मन्त्रः तेन आहिता देहस्य रक्षा यया सा त्वदीयनाममन्त्रेण कृतशरीररक्षा सती स्वकालप्रभवां स्वस्य काले प्रभवतीति तां आत्मीयकालोत्पन्नां निद्रां क्रमेण अवाप्य प्राप्य इभो गज उक्षा वृषभ इभश्च उक्षाणौ तौ प्रभुखौ येषां ते तान् चतुर्दशस्वमान् (यजिस्वपिरक्षियतिप्रच्छोनः ५-८-८५ । इ. स. भावेस्वप्धातोर्न ।) अदर्श दृष्टवती ॥ ३३ ॥ ततोऽत्यभीष्टामपि सर्वसार-स्वमौघसंदर्शन या कृतार्थाम् । विसृज्य निद्रां चतुरांचित त्वां, तत्त्वार्थमीमांसिषयागतास्मि ।। ३४॥
(व्या०) तत इति । हे चतुरांचित चतुरै अञ्चितस्तस्य संबोवनं हे विद्वत्पूजित ततः ततोऽनन्तरं अहं अयभीष्टामपि निद्रां विसृज्य त्यक्त्वा तत्वार्थमिमासिपया मिमांसितुं विचारयिनुमिच्छा मिमांसिषा तत्वस्य अर्थस्य मिमांसिघया विचारेण त्वां त्वत्समीपमागतास्मि । किंलक्षणां निद्रां सर्वसारस्वप्नौघसंदर्शनया सर्वेषु सारा प्रशस्या ये स्वप्नास्तेषामोव समूहस्तस्य संदर्शना दर्शनेन कृतार्थी कृतोऽर्थो यया सा तां कृतार्थाम् ॥ ३४ ॥ वस्त्वाकृषन्ती भवतः प्रसाद-संदंशकेनापि दविष्ठमिष्टम् । न कोऽपि दुष्प्रापपदार्थलोभ-जन्माऽभजन मां भगवस्तदाधिः ॥३५॥
(व्या०) वस्त्विति । हे भगवन् कोऽपि दुष्प्रापपदार्थलोमजन्मा दु खेन प्राप्यते इति दुष्प्राप. प्राप्तुमशक्यः स चासौ पदार्थश्च तस्य लोभात् जन्म यस्य सः दुर्लभवस्तुलोभोत्पन्न. आधिरसमाधिस्तदा तस्मिन्नवसरे मां न अभजत् । कि कुर्वती मां भवतः प्रसादसंदंशन प्रसाद एव संदंशकरतेन तव प्रसादरूपसंदशकेन दविष्ट ( गुणाझाष्ठेयसू ७-३-९ । इ. सू. दूरशब्दात् इष्ठप्रत्ययः । स्थूलदूरयुक्-न । ७-४-४२ । इ. स. अन्त्यस्वरादेलोपः नामिनो गुणश्च ।
ओदौतोऽवाव् । १-२-२४ । इ सू अवादेशः ।) अतिशयेन दूरं इति दविष्ठ दूरतरमपि इष्टमभीष्टं वस्तु आकृषन्ती आकृपतीति आकृषन्ती ताम् ॥ ३५ ॥ आकूतमक्षिभुवचेष्टयैव, हा विबुध्याखिलकर्मकारी । न स्वैरचारीति परिच्छदोऽपि, मनो दुनोति स्म तदा मदीयम् ॥३६॥