________________
२६०) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ८
(व्या.) अङ्गेष्विति । हे नाथ चन्दनेन स्वतनुः स्वस्य तनुः शरीरं । आत्मीयं शरीरं भुजङ्ग (नानोगम खड्डौ च विहायसस्तु विह. ५-१-१३१ । इ. सू. भुजनामपूर्वकगम्धातो खड्प्रत्ययः खिल्वात् मोन्तः। ) भोग्या (वर्णव्यञ्जनाद् ध्यण् । ५-१-१७ । इ. सू. भुजधातो. ध्यण । तेऽनिटश्चनोः कगौघिति । ४-१--१११ । इ. सू. भुज्धातो. जस्य गः ।) भुजङ्गैः भोग्या सर्पवेष्टिता वितेने । उप्रेक्षते अनुतापादिव पश्चात्तापादिव किंविशिष्टेन चन्दनेन मे मम अङ्गेषु निराश्रयेग निर्गत आश्रयो यस्य तत् तेन आश्रयरहितेन । किंविशिष्टेषु अड्गेषु देववधूपनीतदिव्याङ्गरागेषु देवानां वध्वस्ताभिरुपनीता। दिव्या अङ्गरागा येषु तानि तेषु ॥ २५ ॥ खभूषणैरेव मदङ्गशोभा, सम्भावयन्तीष्वमराङ्गनासु । रोषादिवान्तदेहनं प्रविश्य, द्रवीभवत्येव भुवः सुवर्णम् ॥ २६ ॥
(व्या०) स्वरिति । हे नाथ भुव पृथिव्याः सुवर्ण अन्तर्दहनं ( पारे मध्येऽन्तः षष्ट्या वा । ३-१-३० । इ सू. अव्ययीभाव समासः ।) दहनस्य अन्तर्मध्ये प्रविश्य रोषादिव क्रोधादिव द्रवीभवति न द्रवमद्रवं अद्र द्रवं भवति इति द्रवीभवति गलन्येव । कासु सतीषु अमगगनासु अमराणां देवाना. मङ्गना नार्यस्तासु देवागनासु स्वर्भूषणैरिव स्वर्गसत्काभग्णैरेव मदङ्गशोभा मम जङ्गस्य शोभा सभावंयन्तीपु कुर्वतीपु सतीषु ॥ २६ ॥ पयः प्रभो नित्यममय॑धेनोः, श्रीकोशतो दिव्यदुकूलमाला । पुष्पं फलं चामरभूरुहेभ्यः , सदैव देवैरुपनीयते मे ॥ २७ ॥
(व्या०) पय इति । हे प्रभो हे स्वामिन् देवैर्नियं निरंतर अमर्त्यधेनो; अमर्त्यानां देवानां धेनुस्तस्याः कामधेनोः पयो दुग्धं श्रीकोगत श्रियो लक्ष्म्या. कोश श्रीकोशस्तस्मादिति श्रीकोगत दिव्यदुकुलमाला दिव्यानि च तानि दुकृ. लानि च तेपा माला च अन्यत् अगरभूरुहेभ्य अमगणां देवानां भूरहो वृक्षास्तम्य कपवृक्षेभ्य पुष्प फलं सदैव मे मम उपनीयते ढोक्यते ॥ २७ ॥ भोगेषु मानव्यपि मानवीनां, स्वामिन्न बन्नामि कदाचिदास्थाम् । अह त्वदीयेत्यनिशं मुरीभिः, स्वर्भोगमङ्गीप्वभिकीकृताङ्गी ॥ २८ ॥