________________
1
श्री जैनकुमारसम्भवाख्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग: ८ (२५९ स्त्रीमात्र मेषास्मि तव प्रसादा- देवादिदेवाधिगता गुरुत्वम् । राज्ञो हृदि क्रीडति किं न मुक्ता-कलापसंसर्गमुपेत्य तन्तुः ||२२|| ( व्या० ) श्री इति । हे आदिदेव आदिवासौ देवश्च तस्य संबोधनं हे आदिदेव एपा अहं स्त्रीमात्रं स्त्रीएव स्त्री साधारणा अस्मि । तव प्रसादादेव कृपाया एव गुरुत्व गुरोर्भावो गुरुत्वं तत् महत्त्वं अधिप्राप्तास्मि । तन्तुर्मुक्ताकलापसंसर्ग मुक्तानां कलाप समूहस्तस्य संसर्ग संवधमुपेत्य प्राप्य राज्ञो नृपम्य हृदि हृदये किं न क्रीडति अपि तु क्रीडति ॥ २२ ॥
मां मानवीं दानववैविध्यो, याचन्ति यत्प्राञ्जलयोगदास्यम् । सोऽयं प्रभावो भवतो न धेयं, भस्कापि भाले किमु मन्त्रपूतम् ||२३|| मामिति । दानववैविध्य दानवानां दैत्यानामरय शत्रवः दानवारयो देवास्तेषां वव्व स्त्रिय देवाङ्गनाः प्राञ्जलय' कृताञ्जलय सत्यो मानवोमपि यत् अदास्यं अङ्गस्य दास्य शरीरदास्यं याचन्ति । सोऽयं भवतस्तव प्रभावो वर्तते । भस्मापि रक्षापि मन्त्रपूतं सत् मन्त्रेण पूतं सत् भाले ललाटे किं न धेयं धातु योग्य किं न धार्यमपि तु धार्यमेव ॥ २३ ॥ त्वत्सङ्गमात् सङ्गमितेन दिव्य - पुष्पैर्मदङ्गेन विदुरितानि । वैराग्यरङ्गादिव पार्थिवानि, वनेषु पुष्पाण्युपयान्ति वासम् ॥ २४ ॥
(०या० ) त्वदिति । हे नाथ पार्थिवानि (जाते ६-३-९८ । इ. सू. जातेऽर्थे पृथिवीशब्दात् अण् प्रत्यय 1 ) पृथिव्यां जातानि पुष्पाणि वैराग्यरङ्गादिव वैराग्यस्य रङ्गस्तस्मादिव वनेषु वासमुपयन्ति प्राप्नुवन्ति किंविशिष्टानि पुष्पाणि । सङ्गमात् (त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् । २ - १ - ११ । इ सू. उत्तरपदे युष्मदस्व आदेश ।) तव सङ्गमस्तस्मात् दिव्यपुष्पै दिव्यानि च तानि पुष्पाणि च तै सङ्गमितेन मिलितेन मदङ्गेन मम अहं तेन मम शरीरेण विदूरिकृतानि दूरीकृतानि ॥ २४ ॥
अङ्गेषु मे देव धूपनीत - दिव्याङ्गरागेषु निराश्रयेण । नाथानुतापादिव चन्दनेन, भुजङ्गभोग्या स्वतनुर्वितेने ॥ २५ ॥