________________
२५८) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः८
पातुत्रिलोकं विदुपस्त्रिकालं, त्रिज्ञानतेजो दधतः सहोत्थम् । स्वामिन्नतेऽवैमि किमप्यलक्ष्य, प्रश्नस्त्वयं स्नेहलतैकहेतुः ॥ १९ ॥
(व्या०) पात्विति । हे स्वामिन् अहं ते तव किमपि अलक्ष्यं न लक्ष्य अलभ्यं तत् अज्ञेयं नावैमि न जानामि। त्रीण्यपि विशेषणानि भगवतो ज्ञेयानि । किंविशिष्टस्य तव त्रिलोकं त्रिभुवन पातुः पातोति पाता तम्य रक्षतः । त्रिकालविदुषः त्रयाणां कालानां समाहारस्तत् वेत्तीति तस्य अतीतानागतवर्तमानकालान् ज्ञातवतः सहोत्थं सहोत्पन्नं त्रिज्ञानतेजः त्रयाणां ज्ञानानां समाहारस्तस्य मतिश्रुतावधिज्ञानस्य तेज. तत् दधत दधातीति दधत् तस्य बिभ्रत तु पुनरयं प्रश्नः स्नेहलतैकहेतुः स्नेह एव लता तस्याः एकश्चासौ हेतुश्च वर्तते ॥ १९ ॥ निध्यायतस्ते जगदेकबुद्धया, मप्यस्ति कोऽपि प्रणयप्रकर्षः । भृशायते चूतलताविलासे, साधारणः सर्ववने वसंतः ॥ २० ॥ __ (व्या०) निध्यायत इति । हे स्वामिन् ते तव जगत् एकबुद्धया एकाचासौ बुद्धिश्च तया निध्यायत पश्यतः सतः मयि विषये कोऽपि अपूर्व प्रणयप्रकर्षः प्रणयस्य स्नेहस्य प्रकर्षः स्नेहसमूहोऽस्ति । वसन्त सर्वचने साधारणः सदृशो वर्तते परं चूतलताविलासे चूतस्य लता तस्या विलासे सहकारवल्लीविलासे भृशायते (व्यर्थे भृशाद स्तोः । ३-४-२९ । इ सू च्यर्थे मृगादे क्यड् इडित कतरि । ३-२-२२ । इ. मू डिवात आत्मनेपदम् ।) न मृशः अभृश अमृग भृशो भवतीति मृशायते अधिकः स्यात् ।। २० ॥ न नाकनाथा अपि यं नुवंतो, वहंति गर्व विबुधेशतायाः । . वक्तुं पुरस्तस्य तव क्षमेऽह-महो महामुर्महिलामु मोहः ॥ २१ ॥
(व्या०) नेति । हे नाथ नाकनाथा अपि नाकस्य स्वर्गम्य नाथा इन्द्रा अपि यं त्वा नुवन्त नुवन्तो त नुवन्त स्तुवन्त सन्तो विवुधेशताया विधानां देवानामोशाम्तेपा भावन्तस्या देवेशत्वं पक्षे विहदीशि वं तस्या गर्वमभिमानं न वहन्ति । तस्य नव पुगेऽग्रे अहं वस्तु जल्पितु भमे शक्नोमि । अहो इत्याश्चर्ये महिलानु बीपु मोहो महासु महाप्राणी वर्तते ॥ २१ ॥