________________
श्रीजैनमारसम्भवाल्य महाव्यम् टीसमलंकतम् ॥ सर्गः ८ (२६१ ___(व्या०) भोगेष्विति । हे नाथ अहं मानवी मनुष्यमात्रापि मानवीनां भोगेषु कदाचिदास्था न बध्नामि । अहं त्वदीया तव इयं त्वदीया त्वत्सत्का इति कारणात् सुरीभिर्देवाङ्गनाभि अनिशं निरन्तरं स्वर्मोगभङ्गीषु स्वर्भागस्य भङ्गयस्तासु, देवलोकसत्कभोगविच्छित्तिषु अभिकीकृताझी न अभीकं अनभीकं अनभीक अभीकं ( अभेरीश्च वा ७-१-१८९ इ. सू. अभेः कमितरि कः ) कृत इति अभिकीकृतं अभिकीकृतं अझं यस्या सा अभिकीकृताझी कामुकीकृतशरीरा वर्त ॥ २८ ॥ अन्यैरनीषल्लभमेति वस्तु, यदायदासेचनकं मनो मे । तदातदाकृष्टमिवैत्यदूरा-दपि प्रमोदं दिशति पयीशे ॥ २९ ॥
(व्या०) अन्यैरिति । हे नाथ यदा यस्मिन्नवसरे मे मम मनः यत् आसेवनकं नयनानन्दकारि वस्तु एति गच्छति । किलक्षणं वस्तु अन्यैः अनीपल्लभं ईषत्सुखेन लभ्यते इवल्लभं (दु स्वीपत: कृच्छाकृछार्थात् खल् ५-३-१३९ । इ. सू. ईषत्पूर्वकलमधातो. खल।) न ईपल्लभं अनीषल्लभं दुष्प्रापं तद्वस्तु त्वयिईशे सति समर्थ सति तदा तस्मिन्नवसरे दूरादपि आकृष्टमिव एत्य आगत्य मे मम प्रमोद दिशति ददाति ॥ २९ ॥ प्रमाष्टिं गेहाग्रमभुनभवान् , पिपर्ति कुंभान् सुरसिन्धुरद्भिः । भक्ष्यस्य चोपस्कुरुतेंऽशुमाली-दास्योपि नेशे त्वयि दुर्विधा मे ॥३०॥
(व्या०) प्रमार्टि इति । हे नाथ त्वयि ईशे स्वामिनि सति मे मम दाम्योऽपि दुर्विधा न दुःस्थानदुष्कर्मकों न वर्तते । नभस्वान् *भुः (रभिप्रथिभ्यामृचरस्य । ७३० इ. सू रभिधातो. कित् उप्रत्यय रेफस्य च ऋकार । रभन्ते पुण्यकार्येषु उत्सुका भवन्तीति *भव । ) वायुर्देवता मे मम गेहाग्रं गेहस्याग्रं तत् गृहागणं प्रमार्टि तृणकाष्ठक चवरादि परत्र करोति । सुरसिन्धुः सुराणां सिन्धु. आकाशगङ्गा अद्धि पानीय कुंभान् पिपर्ति पूरयति । च पुनरंशु. मालो अंशूनां किरणानां माला पडूक्तयः सन्ति इति अंशुमाली सूर्यः भक्ष्यस्य उपस्कुरुते ( उपाद् भूषासमवायप्रतियत्नविकारवाक्याच्याहारे । ४-४-९२ ।