________________
२५६) श्रीजेनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ८
विषये भूघातो. कसु प्रत्यय 1 ) उत अथवा अड्गे शरीरे माणिक्यभूषा माणिक्यानां भूषा रत्नाभरणानि किं अपदोपा अपगतो दोषो यस्याः सा निर्दोषा वर्तते । किंरूपा माणिक्यभूषा सुवर्णे परभागं पुण्योत्कर्ष प्राप्ता ॥ १३ ॥
1
महानिशायामपि मुक्त निद्रे, दिदृक्षया मां किमुपस्थितासि । क्षणार्धमुकेsपि चिराय दृष्ट-इव प्रिये धावति येन चेतः ॥ १४ ॥
( व्या० ) महा इति । महानिशाया (जातीयैकार्थेऽचेः । ३-२-७० । इसू डाप्रत्यय डित्यन्तस्व० २-१-११४ । इ. स. अन्त्यस्वरादेलोंप. ) मपि महती चासौ निशा च महानिशा तस्यां अर्द्धरात्रेऽपि हे मुक्तनिद्रे त्वं मां दिदृक्षया द्रष्टुमिच्छा दिदृक्षा तया विलोकनेच्छया किं उपस्थितासि आगतासि । येन कारणेन क्षणार्द्धमुक्तेऽपि क्षणार्द्ध मुक्तस्तस्मिन् प्रिये चिराय चिरकालं दृष्टे इव चेतो धावति ॥ १४॥
स्वझोपलब्धे मयि भारदूना, रिरंसया वा किमुपागतासि । प्रायोऽबलासु प्रबलत्वमेति, कन्दर्पवीरो विपरीतवृत्तिः ॥ १५ ॥
( व्या० ) स्वम इति । वा अथवा हे देवि मयि स्वप्नोपलब्धे सति स्वप्ने उपलब्धः स्वमोपलब्घस्तस्मिन् स्वममध्ये दृष्टे सति त्वं भारदूना मारेण कामेन दूना' पीडिता मारदूना कामपीडिता सती रिरंसया रन्तुमिच्छा रिरंसा (शसिप्रत्ययात् । ५ -३ - १०५ । इ स सन्नन्तरिरंसवतो. स्त्रियां भावे अप्रत्ययः । आत् २-४-१८ । इ. स. खियामाप् ।) तया किमुपागतासि आयातासि । प्रायोबाहुल्येन विपरीतवृत्ति विपरीता वृत्तिर्यस्य स कन्दर्पवीर कन्दर्प एव वीरों भट' अबलासु स्त्रीषु प्रचलत्वं प्रबलस्य भाव प्रबलत्वमेति प्राप्नोति ॥ १५ ॥ प्रिये प्रयासं विचिकित्सितं वा, मीमांसितुं किंचिदमुं व्यवास्त्वम् । संदेहशल्यं हि हृदोऽनपोढ-मामृत्यु मर्त्यस्य महार्तिदायि ॥ १६ ॥
( व्या० ) प्रिये इति । वा अथवा हे प्रिये त्वं किंचित् विचिकित्सितं संदिग्धं विचारं मोमांसितुं विचारयितुं अमुं प्रयासं व्यधा अकार्षी । हि निश्चित हृदो हृदयात् संदेहशल्यं संदेह एव शल्यं अनपोढं न अपोढं अनाकृष्टं
1