________________
भीजन मारसम्भवाख्यं महाव्यम् टीकासमलंकृतम् ॥ सर्गः ८ (२५५
जालानि समूहास्त. दन्तकिरणसमूहै. तया रजन्या ज्योत्स्नी (ज्योत्स्नादिभ्योऽण् । ७-२-३४ । इ. सू. मत्वर्थ ज्योत्स्नाशब्दात् अण् । ज्योत्स्ना अस्ति अस्यामिति अण् । अणयेकण् इ. सू. स्त्रियां डी. 1) पूर्णिमा तस्या यश कीर्ति जापयता जयाय प्रयुञ्जता जिझिं अभिभवे जिधातोर्णिगन्तस्य प्रयोग । किंकुर्वद्भिर्दशनाशुजालैः दिगगनाङ्गेषु दिश एव अङ्गना. स्त्रियस्तासामङ्गेषु शरीरेषु सिताङ्गरागभङ्गी सितश्वासौ अङ्गरागश्च तस्य भङ्गी विच्छित्तिस्तां श्वेतविलेपनरचनां भजाहिः सेवमानै । कोऽर्थः भगवतोदन्तकिरण सा रात्रिज्वला जाता तया च पूर्णिमायशोनिर्जितमिति भावः ॥ ११ ॥ अयानचर्यानुचितक्रमायाः, कञ्चित्तव स्वागतमस्ति देवि । तनूरबाधा तव तन्वि तापो-तीर्णस्य हेम्नो हसितप्रकाशा ॥ १२ ॥
(व्या०) अयानेति । हे देवि कञ्चित् अभीष्टप्रश्ने तव स्वागतं सुष्टु शोभनं आगमनं अस्ति विद्यते । किविशिष्टायास्तव अयानचर्यानुचितक्रमायाः न यानमयानं अयानेन चर्या ( समजनिपन्ननिषद्शीड सुग् विदिचरिमनीणः । ५-३-९९ । इ. सू. चर्धातोः भावे क्यप् । ) गमनं तस्थामनुचितौ अयोन्यौ क्रमौ चरणौ यस्याः सा तस्याः यानरहितचर्यानुचितगमनायोग्यचरणायाः हे . तन्धि कृशामि तव तनू शरीरं अबाधा न विद्यते बाधा पीडा यस्या सा निराबाधा वर्तते । किविशिष्टा तनू • तापोत्तीर्णस्य तापादुत्तीर्णस्य अग्नितापगतमलिनिम्नो हेम्न सुवर्णस्य हसितप्रकाशा हसितः प्रकाशो यया सा जितस्वर्णकातिरित्यथैः ॥ १२ ॥ छायेव पादपृथग्बभूवान् , सुखी सदास्ते स सखीजनस्ते । प्राप्ता सुवर्णे परभागमङ्गे, माणिक्यभूषा किमुतापदोषा ॥ १३ ॥
(व्या०) छायेति । हे देवि ते तव स सखीजन: सखीनां जन सखीवर्गः सदासुखी सुखमस्यास्तीति सुखी कुशली आस्ते । किलक्षण सखीजन' छाया इव पार्थात् समीपात् अपृथग्वभूवान् पृथग्बभूव इति पृथग्बभूवान् न पृथग्बभूवान् अबभूवान् (तत्र कासुकानौ तद्वत् । ५-२-२ । इ सू परोक्ष