________________
૨) શ્રીનનમાલમવાલ્યું મજ્ઞાાવ્યમ્ દીાલમહંતમ્ ॥ ધર્મઃ ૮
n
उपविष्टः । किंलक्षणां शय्यां इदमङ्गसङ्गभङ्गानुतापादिव अस्य भगवतः अङ्ग शरीरं तस्य सङ्गः तस्य भङ्ग तस्यानुतापस्तस्मात् पश्चात्तापात् क्षणं धृतोष्माभिव घृतं उष्मं यया सा तां घृतसंतापामिवेत्यर्थ ॥ ८ ॥
पुरः स्थितामप्युषितां हृदन्त - र्निशिप्रबुद्धामपि पद्मिनींताम् । अप्यात्तमौनां स्फुरदोष्ठद्दष्ट - जिजल्पिषामैक्षत लोकनाथः ॥ ९ ॥
( व्या० ) पुर इति । लोकनाथः लोकानां नाथः श्रीयुगादीशः तां सुमझलामैक्षत दृष्टवान् । किंविशिष्टां तां पुरोऽग्रे स्थितामपि हृदन्तः हृदयस्य अन्तमध्ये उषितां हृदयमध्ये कृतावासां निशि रात्रौ प्रबुद्ध जागरितामपि पद्मिन कमलिन पक्षे पद्मिनीं स्त्री आत्तमौनामपि आतं गृहीतं मौनं यया सा तामपि स्फुरदोष्टदृष्टजिजल्पिषां स्फुरन्तौ च तो ओष्ठौ च ताभ्यां दृष्टा जल्पितुमिच्छा जिजल्पिषा (शंसि प्रत्ययात् । ५-३ - १०५ । इ. सू. सन्नन्तजिजल्पिष्धातोः स्त्रियां अप्रत्यय 1) नल्पनेच्छा यस्या सा ताम् ॥ ९ ॥ सुमङ्गलां मङ्गलकोटिहेतु - नैतुर्निदेश स्त्रिदशेश मान्यः । निवेशयामास निवेशयोग्ये, भद्रासने भद्रमुखीमदूरे ॥ १० ॥
( व्या० ) सुमङ्गलामिति । नेतु' श्री ऋषभदेवस्य निदेशआदेश: भद्रमुखीं (नखमुखादनानि । २-४-४० । इ. सू. भद्रमुखशब्दात् स्त्रियां डी: 1) भद्रं कल्याणकृन्मुखं यस्या' सा तां सुमङ्गलां अदूरे प्रत्यासने निवेशयोग्ये निवेशस्य योग्यं तस्मिन् उपवेशना भद्रासने निवेशयामास उपवेशयति स्म । किंविशिष्टो निदेश' मङ्गलकोटिहेतु' दधिदूर्वाक्षतचन्दनादिमङ्गलानि तेषां कोटिस्तस्याः हेतु कारणं पुनः त्रिदशेशमान्यः त्रिदशानां देवानामीशा. स्वामिनस्त्रिदशेशा. सौधमदयश्चतुष्षष्टिदेवेन्द्रास्तेषां मान्य ॥ १० ॥
दिगङ्गनाङ्गेषु सिताङ्गराग-भङ्गीं भजद्भिर्दशनांशुजालैः । ज्यौत्स्नी यशोजापयता जिनेन तयारजन्या जगदेऽथ जाया ||११|| ( व्या० ) दिगिति । अथानन्तरं जिनेन श्री 15 मेण जाया सुमङ्गला जगढे । किंकुर्वता जिनेन दशनांशुजालै दगनानां दन्तानां अंगव किरणास्तेपां