________________
श्रीजनकुमारसम्भवाल्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ८ (२५३,
क्षोभो भवन् मा म मुषुप्तितृप्ते, नाथेऽत्र तारस्वरया ममोक्त्या।। मेधाविनी तजय जीव नन्दे-त्युदीरयामास मृदुं गिरं सा ॥६॥
(व्या) भोभ इति । मेधाविनी (अस्तपोमायामेधास्त्रजोविन् । ७-२४७ । इ. स. मत्वर्थे मेधाशब्दात् चिन् । स्त्रियां नृतोऽस्वस्त्रादेडी । २-४१ । इ. सू स्त्रियां डी. 1) मेधा बुद्धिरस्ति अस्या इति मेधाविनी बुद्धिमती सा सुमङ्गला तत् तस्मात् कारणात् त्व जय त्वं जीव आयुष्मान् भव नन्द इति मृदुं सुकोमलां गिरं वाणीमुदीरयामास जगाद । कस्मात् हेतोः सुषुप्तितृप्ते सुषुप्त्या तृप्ते अत्र अस्मिन् नाथे. स्वामिनि तारस्वरया तारो दीर्घ स्वरो, यस्या सा तया, मम उक्त्या क्षोभो मा स्म भवन् (सस्मे बस्तनी च । ५-४-४० ।, इ. सू: स्मयुक्तमाडिउपपदे ह्यस्तनी । अधातोरादिस्तिन्यां चमाडा । ४-४२९ । इ. सू. अडभावः ।) मा भवतु इति कारणात् ॥ ६ ॥ चित्रं वधूवक्त्रविधूत्थवला-वाकौमुदीभिः सरसी रराज । श्रीसङ्गमैकप्रतिभूप्रबोध-लीलोल्लसल्लोचननीरजन्मा ॥७॥
(च्या०) चित्रमिति । स भगवान् सरसी रसाड्य पक्षे सरसी,महासरः चित्रमाश्चर्य रराज । काभि वधूवक्त्रविधूत्थवल्गुवाकौमुदीभि वध्वा. सुमङ्गलाया वक्त्रं मुखमेव विधुश्चन्द्र तस्मादुत्था वल्गवो या कौमुद्यो ज्योत्स्नास्ताभि । किं.) विशिष्टो भगवान् श्रोसङ्गमैकप्रतिभूप्रबोधलोलोल्लसल्लोचननीरजन्मा श्रीलक्ष्मीस्तायाः सङ्गमे एकश्चासौप्रतिभूश्च प्रतिभूसमानप्रबोधस्तस्य लीलया उल्लसन्ती लोचने एव नीरजन्मनी कमले यस्य स ॥ ७॥ निविष्टवानिष्टकृपः स पूर्व-कायेन शय्यां सहसा विहाय । . क्षणं धृतोष्मामिदमङ्गसङ्ग-भङ्गानुतापादिव देवदेवः ॥ ८॥
(व्या०) निविष्ट इति । इष्टकृप. इष्टा कृपा करुणा यस्य स इष्टकृ५ अभीष्टकरुण स देवदेवो देवानां देव भगवान् पूर्वकायेन (पूर्वीपराधरोत्तरमभिन्ननाशिना । ३-१-५२ । इ. सू. तत्पुरुषसमास ।) पूर्वं कायस्य शरीरस्य पूर्वकायस्तेन अप्रशरीरेण शय्यां सहसा औत्सुक्येन विहाय मुक्या निविष्टवान्