________________
२५२) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ७ क्तिकानां श्रीः मुक्तामयी अलंकरणलक्ष्मीग्दोयत दत्ता । तत्र स्थितौ श्रीयुगादोशदृष्टौ सा मौक्तिकमंडनश्री सहसा विलोना विल्यं गता । नेतु ( णकतृचौ । ५ - १-४८ । इ. सू. नीवातो कर्तरितृच् प्रत्ययः । नामिनोगुणोऽकिति । ४- ३-१ । इ. सू. नीधातोर्गुण । ) स्वामिनोऽग्रे किं कृत्रिमं खेलति अपि तु नैव ॥ 919 11 3 11
श्लथं विहारेण यदन्तरीय- दुक्कूलमासीत् पथि विप्रकीर्णम् । सांयात्रिकेणेव धनं नियम्य, नीवीं तया तद् दृढयांबभूव ॥ ४ ॥
( व्या० ) थमिति । यदन्तरीयदुकूलं यस्या सुमङ्गलाया. अन्तरीयं परिधानवस्त्रं तदेव दुकूलं पडलं पथिमार्गे विहारेण चलनेन श्लथं शिथिलं विप्रकोण विसंस्थुलमासीत् । तद्दुकूलं तया सुमङ्गलया नीव मेखलां नियम्यबध्ध्वा दृढयांबभूवे दृढीचके ये श्वासवाता इत्यादिकं सुमङ्गलायाः स्तोकचलेऽप्युक्तम् । तत अतिशयालङ्कारे कवीनां धर्मादुक्तम् । यथा वाग्भटालङ्कारे त्वहारितारितरुणीश्वसितानलेनेत्यादि । केनेव सांयात्रिकेणेव (प्रयोजनम् । ६-४११७ । इ. सू. संयात्राशब्दान् प्रयोजनेऽर्थे इकण् प्रत्यय' । ) संभूय यात्रा प्रयोजनमस्येति सांयात्रिकस्तेन प्रावहणिकेनेव यथा सांयांत्रिकेण नीविं मूलद्रव्य नियम्य पथि विप्रकीर्ण धनं दृढीक्रियते ॥ ४ ॥
भर्तुः प्रमीला सुखमङ्गभीति - स्तामेकतो लम्भयतिस्म धैर्यम् । 'स्वार्थ शुश्रूषणकौतुकं चान्यतस्त्वरां स्त्रीषु कुतः स्थिरत्वम् ॥ ५ ॥
( व्या० ) भर्तुरिति । भर्तु श्रोऋषभदेवस्य प्रमीलासुखमङ्गमीति प्रमीलाया निद्रायाः सुखं तस्य भङ्गो नाशस्तस्माद् भीतिर्भयं एकत (आयादिभ्यः । ७-२-८४ । इ. सू. एकशब्दात् तसु एकस्मिन् इति एकत 1) स्तां सुमझलां धैर्यं धीरस्य भावस्तत् लम्भयति स्म प्रापयति स्म । च अन्यत' (आद्यादिभ्य ७-२-८४ । इ. सू. अन्यशब्दात् तसु अन्यस्मिन् इति अन्यत 1) स्वप्नासुश्रूषणकौतुकं स्वप्नानामर्थास्तेषां शुश्रूषणं श्रोतुमिच्छा तस्य कौतुकं त्वरामौत्सुक्यं प्रापयति स्म स्त्रीषु स्थिरत्वं स्थैर्य कुत स्यात् ॥ ५ ॥