________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. ८ (२५१
॥ अथ अष्टमः सर्गः प्रारम्यते ॥
अथ प्रसन्नप्रभुवक्त्रवीक्षा-पीयूषपानोत्सवलीनचेताः। विश्रम्य मृद्वी क्षणमविचार-जन्मक्लमच्छेदमसौ विवेद ॥ १ ॥
(व्या०) अथेति । अथानन्तरं मृद्धी (स्वरादुतो गुणादखरोः । २-४३५ । इ. सू. मृदुादात् स्त्रियांडीर्वा ) सुकोमला असो सुमङ्गला क्षणं विश्रम्य अंघ्रिचारजन्मल्लमच्छेदं अंयोश्चार अध्रिचार तस्मात् जन्म यस्य चासौ क्लमश्च तस्यच्छेदतं चरणसंचरणसमुत्पन्नश्रमच्छेदं विवेद प्रा५ । किंलक्षणा सुमङ्गला प्रसन्नप्रभुवक्त्रवीक्षापीयूषपानोत्सवलीनचेता प्रसन्नं च तत् प्रभोर्वक्त्रं च मुख तस्य वोक्षा दर्शनं तदेव पीयूषममृतं तस्य पानं तस्य उत्सवे लीनं घेतो यस्याः सा ॥ १ ॥ ये श्वासवाता वदनादमान्त-इवोद्भवन्ति स रयेण तस्याः । । ते स्वास्थ्यमापत्सत वहिदिश्य-वायोविरामे जलधेरिवापः ॥२॥
(व्या०) ये इति । तस्याः सुमङ्गलाया वदनात् मुखात् ये श्वासवाता. श्वासस्य वाता. श्वासवायवो रयेण वेगेन अमान्त इव उद्भवन्ति स्म रयेण उद्यता. । ते श्वासपाताः स्वास्थ्यं स्वस्यस्य भाव स्वास्थ्यं निश्चलतामापत्सत आगता । के इव जलधेः जलानि धीयन्ते अस्मिन् इति जलधि. तस्य समुद्रस्य आपो जलानीव । यथा आपो जलानि वह्निदिश्य (दिगादिदेहाशाच ६-३-१२४ । इ. सू दिश् शब्दात् भवेऽर्थे यः । ) वायो पहेर्दिशिभवो यो वायुस्तस्य आग्नेयकोणपवनस्य विरामे अभावे स्वास्थ्यमापद्यन्ते ॥ २ ॥ या कृत्रिमा मौक्तिकमण्डनश्री-रदीयत स्वेदलवै तदङ्गे। तत्र स्थितौ सा सहसा विलीना, किं कृत्रिमं खेलति नेतुरग्रे ॥३॥ . (व्या०) येति । तदङ्गे तस्या सुमङ्गलाया अङ्गं तस्मिन्, शरीरे स्वेदजले स्वेदस्य जलानि तै. प्रस्वेदबिन्दुभि. या कृत्रिमा (ड्वितस्त्रिमा तत्कृतम् । ५-३-८४ । इ सू. कृग्धातो त्रिम । ) क्रियया निवृत्ता मोक्तिकश्री:मौः