________________
२४८) श्रीजेनकुमारसम्भवाख्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ७
अकाले मज्जुसिञ्जाना, मेखला मे खलायितम् । अधुनैव विधात्री कि- मिति सा दध्युपी क्षणम् ॥ ७२ ॥
( व्या० ) अकाल इति । सा सुमङ्गला क्षणमिति दध्युषो दध्याविति दध्युप ध्यातवती । इतीति किं मे मम मेखला खलायितं दुर्जनवढाचरितं अधुनैव किं विधात्री किं करिष्यति । किं कुर्वाणा मेखला अकाले न कालोडकालस्तस्मिन् अनवसरे मञ्जु मनोज्ञ सिञ्जानां अव्यक्तं शब्दं कुर्वाणा ॥ ७२ ॥ मौनं भेजे करस्पर्श - संकेताद्वलयावलिः ।
विदुषीव तदाकूतं, तरसा तत्प्रकोष्ठयोः ॥ ७३ ॥
1
( व्या० ) मौनमिति । तत्प्रकोष्ठयोः तस्याः सुमङ्गलाया. प्रकोष्ठौ तयोः तत्प्रकोष्ठयोः वलयावलि वलयोनामावलिर्वलयावलि करस्पर्शसंकेतात् करस्थ स्पर्शस्तस्य सकेतात् मौनं भेजे । किं कुर्वती वलयावलिः तरसा वेगेन तदाकूतं तस्या' सुमङ्गलाया आकूतं स्वान्ताभिप्रायं विदुषी इव विज्ञावतीव ॥ ७३ ॥ दुर्निमित्तात् क्व गन्तासी - त्यालापादालिजन्मनः । भीता मन्दपदन्यासं, साऽभ्यासं भर्तुरासदत् ॥ ७४ ॥
(च्या० ) दुर्निमित्तादिति । सा सुमङ्गला मन्दपदन्यास मन्द पदानां न्यासो यस्मिन् कर्मणि यथा भवति तथा भर्तु श्रीभदेवस्य अभ्यासं समीपं आसदत् प्राप्ता किंलक्षणा सुमङ्गला आलिजन्मन • आलिभ्य सखीभ्यो जन्म यस्य तस्मात् सखीभ्य. समुत्पन्नात् दुर्निमित्तात् (दुर्निन्दाकृच्छ्रे । ३-१-४३ इ. सू. नित्यतत्पुरुष । दुष्टं निमित्तं दुर्निमित्तं । ) अमङ्गलरूपात् क्व गन्तासि त्वं कुत्र गमिष्यसि इत्यालापात् ईदृग् जल्पनात् भीता भयं प्राप्ता । इतीति किं छीए विच्छभग्गे, कहि भणिएकंटके अभग्गे य || 'दिठे सप्पविडाले, नहि गमणं सुंदरं होइ ॥ १ ॥ इति शकुनशास्त्रे जिनदत्तपादा | इति वचनात् अपशकुनभयेन सखीनामकप्रयित्वैकव एकाकिनी ययाविति भाव ॥ ७४ ॥ रत्नप्रदीपरुचिंसंयमितान्धकारे, मुक्तावचूलकमनीय वितानभाजि । सा तत्र दिव्यभवने भुवनाधिनाथं, निद्रानिरुद्धनयनद्वयमालुलोके ॥