________________
श्रीजैनकुमारसम्भवाय महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ७ (२४९
(व्या०) रत्नेति । सा सुमङ्गला तत्र तस्मिन् दिव्यभवने दिव्यं च तत् भवनं च तस्मिन् भुवनाधिनाथं भुवनानामधिनाथ स्वामी तं निद्रानिधनयनद्वयं निद्रया निरुद्ध नयनयोर्नेत्रयोर्द्वयं यस्य तं निद्रयामुद्रितलोचनयुग्मं आलुलोके ददर्श । किंविशिष्टे दिव्यभवने रत्नप्रदीपरुचिसंयमिताधिकारे रत्नानां प्रदीपाः तेषां रुचय कान्तयस्ताभिः संयमितं लक्षणया निराकृतमन्धकारं यस्मिन् तत् तस्मिन् रत्नसत्कप्रदीपानां कान्तिनिरस्ताधिकारे प्रकाशमये इत्यर्थः । पुन मुक्तावचूलकमनीयवितानभाजि मुक्तानामवचूला' डुंबनका. ते कमनीया मनोज्ञा ते च ते वितानाश्च चन्द्रोद्योता. तान् भजतीति भाक् तस्मिन् ॥ ७५ ॥ पल्यङ्के विशदविकीर्णपुष्यतारे, व्योम्नीव प्रथिमगुणैकधाम्नि लीनः। उत्फुल्लेक्षणकुमुदां मुदा जिनेन्दु धक्राणः सपदि कुमुद्धतीमित्रताम् ।।
(व्या०) पल्यत इति । जिनेन्दुः जिन एव इन्दुः श्रीप्रभचन्द्र एतां सुमङ्गलां मुदा हर्षेण कुमुदतीमिव कुमुदानि सन्ति अस्या इति कुमुदती तां कुमुदिनीमिव चक्राण. कुरुते इति चाण कृतवान् । किविशिष्टो जिनेन्दुः पत्यके व्योम्नीव नभसीव लीन• सुप्तः । किंलक्षणे पल्यड्के योनि च विशदविकीर्णपुष्पतारे विशदानि निर्मलानि विकीर्णानि विक्षिप्तानि यानि चम्पकशतपत्रादिपुष्पाणि तैस्तारे मनोज्ञे पक्षे विशदविकीर्णपुष्पवत् तारा यस्मिन् तस्मिन् । पुनः प्रथिमगुणकधाम्नि पृथोर्भाव प्रथिमा (पृथ्वादेरस्मिन् वा । ७--१-५८ । इ. सू. पृथुशब्दात् इमन् वा । त्र्यन्तस्वरादे ७-४-४३ । ई. मू अन्त्यस्वरादेलक् । ) विस्तार स एव गुण विस्तारगुणस्तस्य एकधाम्नि एकहे किं लक्षणां सुमङ्गला उत्फुल्लेक्षणकुमुदा उत्फुल्ले विकरपरे च ते ईक्षणे च लोचने एव कुमुदे यस्याः सा ताम् । कोऽर्थ यथा चन्द्र कुमुदिनी स्वदर्शनेन विकाशयति तथा जिनेन्दुरपि सुमङ्गला मोदयामासेति भाव ॥ ७६ ॥ तोयाीया इव परिचयान्मुक्तशोषं स्वतन्वाः,
पौष्पं तल्पं प्रति परिमलेनोत्तमर्णीभवन्तम् । दृग्भ्यां ब्रीडाव्यपगमऋजुस्फारिताभ्यां प्रसुप्तं,
दृष्ट्वा नाथं लवणिममुधांभोनिधि पिप्रिये सा ।। ७७ ॥