________________
શ્રી નૈનકુમારમવાથ મદ્દાવાળ્યમ્ હાલમતમ્ . સ ૭(ર૪૭ स्यात् । जात्यरत्नपरीक्षायां जात्यानि च तानि रत्नानि च तेषां परीक्षायां बाला: शिशव किमधिकारिणः अधिकारोऽस्ति एषामित्यधिकारिणः स्युरपि तु नैव भवेयुः ॥ ६८ ॥
अथालसलसबाहु-लता तल्यं मुमोच सा । सौषुप्तिकैरिव प्रीय-माणा कणितभूषणैः ॥ ६९ ॥
(व्या०) अथेति । अथानन्तरं अलसलसबाहुलता अलसेन आलस्येन लसन्ती बाहू एव लतावल्ली यस्याः सा सती सा सुमङ्गला तल्पं शय्यां मुमोच त्यक्तवती । किविशिष्टा सुमङ्गला कणितभूषण क्वणितानि च तानि भूषणानि च ते शब्दितैरभमरण कैरिव सौषुप्तिकैः (सुस्नातादिभ्य पृच्छति । ६-४४२ । इ. सू. पृष्छत्यर्थे सुपुतशब्दात् इकण ) सुषुप्तं सुष्टु सुप्तं पृच्छन्तीति सौषुप्तिकानि तै. प्रीयमाणा प्रीतिं पाप्यमाना ॥ ६९ ॥
अकुर्वती स्वहर्षस्य, सखीरपि विभागिनीः । साऽचलचलनन्यास-हंसन्ती हंसवल्लभाः ॥ ७० ॥
(व्या०) अकुर्वतीति । सा सुमङ्गला अचलत् चलतिस्म । किं कुर्वती सखोरपि स्वहर्षस्य स्वस्य हर्षस्तस्य विभागिनी विभागोऽस्ति आसामिति विभागिन्यस्ताः विभागवती अकुर्वती पुनः चलनन्यासैः चलनयोन्यासास्तश्चरणमोचनः हंसवल्लभाः हंसानां वल्लभास्ता राजहंसी हसतोति हसन्ती ॥ ७० ॥
इच्छन्त्या विजनं याने, तस्या नाभवतां प्रिये । नू पुरे रूपरेखाया, आरावैः स्तावकैः पदोः ॥ ७१ ।।
(व्या०) इच्छन्त्या इति । तस्या सुमङ्गलाया नू पुरे प्रिये अभीष्ट नाभपताम् । किं कुर्वत्या याने गमने विजनभेकान्तं इच्छन्त्या इच्छतीति इच्छन्ती तस्या पाच्छन्त्या किंलक्षणे नू पुरे आरावैः (रोरुपसर्गात् । ५-३-२२ । इ. सू. भावेरुधातोर्घञ् । ) गदै तस्याः सुमङ्गलासंबंधिनो पदोश्चरणयो रूपरेखाया रूपस्यरेखा तस्या. स्तावकै (णकचौ । ५-१-४८ । इ. सू. स्तुधातो. कर्तरि णक । नामिनोऽकलिहले । ४-३-५१ । इ. स. वृद्धि । ) सुतिकारकै ॥ ७१ ॥