________________
२४६) श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ७
( ०या० ) मन्ये इति । अहमेवं मन्ये धात्रा ब्रह्मणा स्त्रीषु मोहमयः सर्गः सृष्टि समर्थितः कृतः । यत् यस्मात् कारणात् तदभिष्वङ्गात् तासां स्त्रीणामभिवङ्गात् आसक्तितः तात्त्विका अपि विद्वांसोऽपि मूढतां मूढस्य भावो मूढता तामविवेकितां यान्ति प्राप्नुवन्ति ॥ ६५ ॥
जातौ नः किल मुख्याश्रीः, सापि गोपालवल्लभा । जातं जलात्कलाधार - द्विष्टं शिश्राय पुष्करम् ॥ ६६ ॥
1
( व्या० ) जातौ इति । नोऽस्माकं जातो या श्रीलक्ष्मी मुख्या (शाखा - देर्यः । ७-१-११४ । इ. सू. तुल्येऽर्थेमुखशब्दात् य. । ) वर्तते । सापि श्री गोर्गोपाल वल्लभा गाः पालयतीति गोपाल ( कर्मणोऽण् । ५- १-७२ ॥ इ. सू. गोशब्दपूर्वक पालघातोरणू | डस्युक्तं कृता । ३-१-४९ । इ. सू. नित्यतत्पुरुषः ।) पशुपाल कृष्णो वा तस्य वल्लभा पत्नी | जलात्पानीयात् जडान्मूर्खात् वा जातं कलाघारद्विष्टं घरतीति घर कलानां धरश्चन्द्रो विचक्षणो वा तस्य द्विष्टं पुष्करं कमल शिश्राय आश्रितवती ॥ ६६ ॥
9
बभार भारती ख्यातिं स्त्रीजातौ विदुषीति या । स्वभावभङ्गे न श्रेय इति साऽभूदभर्तृका ॥ ६७ ॥ ( व्या० ) बभारेति । या भारती स्त्रीजातौ विदुषी ( वावेत्ते कसु. ५२-२२ । इ. सू. सदर्थे विदधातो. सु । अघातूहदितः । २-४-२ । इ. सू. स्त्रियांडी । कसुप्मतौ च । २ - १ - १०५ । इ. सू. कस उष् । ) वेत्तीति विदुषी इति ख्यातिं प्रसिद्धि बभार धृतवती । स्वभावभङ्गे स्वभावस्य भङ्गस्तस्मिन् स्वीयसहजप्रकृतित्यागे न श्रेय' कल्याणं इति कारणात् सा अभर्तृका नास्ति भर्ता यस्या' सा अभर्तृका भर्तृरहिता बालकुमार्येव अभूत् ॥ ६७ ॥ तज्जगद्गुरुरेवैत-द्विचारं कर्तुमर्हति ।
जात्यरत्नपरीक्षायां, बालाः किमधिकारिणः ॥ ६८ ।।
( व्या० ) तदिति । तत् तस्मात्कारणात् जगद्गुरु जगतां गुरु श्रीयु गादीश्वर एव एतद्विचारं एतेषां चतुर्दशस्वमानां विचारस्तं कर्तुमर्हति । योग्यः