________________
श्रीजैनकुमारसम्भवास्यं महाव्यम् टीकासमलंकृतम् ॥ सर्गः ७ (२४५ __ (व्या०) कटीर इति । यासां स्त्रीणां कटीरस्तनभारेण कटीरं च कटीतटं स्तनौ च एतेषा समाहार कटीरस्तनं (प्राणितुर्याङ्गाणाम् । ३-१-१३७ । इ. सू. द्वन्द्वैकवद्भाव 1 ) तस्य भारेण पदक्रम पदानां क्रम• चरणविन्यासो मन्दो वर्तते पदश्चरण पक्षे विभक्त्यन्तपढम् । तासा स्त्रीणां विचारसामर्थ्य विशेषण चारो गमनं तस्य सामर्थ्य पक्षे ऊहशक्ति कथं संगच्छते कथं घटते ॥ ६२ ॥
स्थूलस्तनस्थलं दृष्ट्वा, हृदयं हरिणीदृशाम् । त्रस्यता यानहंसेन, भारती नीयतेऽन्यतः ॥ ६३ ॥
(व्या०) स्थूल इति हरिणीशा ( उष्ट्रमुखादयः । ३-१-२३ । इ. सू. समासः ।) हरिण्या दृगिव हक यासां ता. हरिणीदृशस्तासां स्त्रीणां स्थूलस्तनस्थलं स्थूलौ चतौ स्तनौ च स्थूलस्तनौ तयोः स्थलं तत् हृदयं दृष्ट्वा त्रस्यता त्रस्यतीति त्रस्यन् तेन त्रासं प्राप्नुवता यानहंसेन वाहनराजहंसेन भारती सरस्वती अन्यतः अन्यत्र नीयते । कोऽर्थ स्थले राजहंसानां प्रायः स्थिति भवतीति भाव ॥ ६३ ॥
हारेऽनुस्तनवल्मीकं. महाभोगिनि वीक्षिते । आसीदति कुलायेच्छुः, स्त्रीणां धीविष्करी कथम् ॥ ६४ ॥
(व्या०) हार इति । धीनिष्करी (वौ विकिरो वा । ४-४-९६ । इ सू. विपूर्वककिरते स्सट् । ) धीरेव विष्करी बुद्धिरूपपक्षिणी स्त्रीणा स्त-वल्मीक स्तनावेव वल्मीकरतं अनु पश्चात् स्तनरूपकोटरं पश्चात् महाभोगिनि महान् आभोगो विस्तार , अस्ति यस्य महाभोगी तस्मिन् महासप्पै वा एवंविधे हारे वीक्षिते सति कथं आसोदति आसन्ना भवति अपि तु नैव । किं लक्षणा धीविकरी कुलायेच्छुः कुलायं (कुलिलुलिकलिकषिभ्य काय । ३७२ । इ उ. सू कुलिधातो काय. कोलन्ति अत्र इति कुलायः ।) नीडं पक्षे कुलायवंशाय निरु पद्रवतामिछु (विन्दिछु। ५-२-३४ । इ. सु. निपात ) ॥ ६४ ॥
मन्ये मोहमयः सर्गः, स्त्रीषु धात्रा समर्थितः । यान्ति यत्तदभिष्वङ्गा-मूढतां ताविका अपि ॥ ६५ ।।