________________
२४४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६
( ०गा० ) यदिति । सा सुमङ्गला इति आममश इत्थं विमृशति स्म । इतीतिकिम् । यन्निभालनभू येषां स्वप्नानां निभालनात् दर्शनाद भूः समुत्पन्ना प्रीतिः मम तनुं शरीरं तनुं कृशां मेने । तु पुनः तत्फलावाप्तिजन्मा तेषां स्वप्नानां फलानि तेषा मवाप्ति प्राप्ति तस्या जन्म यस्या सा प्रीतिः कं मातु ॥ ५८ ॥ तया स्वक्षणोनीत - प्रीतिसंतर्पितात्मया ।
•
उन्निद्रा नित्यमस्वप्न-वध्वोऽप्यबहु मेनिरे ॥
५९ ॥
( व्या० ) तयेति । तथा सुमङ्गलया अस्वप्नवध्वोऽपि न विद्यते स्वमो निद्रा येषां ते अस्वप्ना देवा स्तेषां वध्योनार्यो देवाङ्गना नित्यं निरन्तरं उन्निद्राः उद्गता निद्रा याभ्यस्ता उन्निद्रा सत्योऽबहुमेनिरे न बहुमन्यन्ते स्म । किं विशिष्टया तया स्वप्नक्षणोन्नीतप्रीतिसंतर्पितात्मया स्वप्नानां क्षण उत्सवः तस्मात उनीता प्राप्ता या प्रीतिस्तया संतर्पित आत्मा यया सा तया ॥ ५९ ॥ चेतस्तुरङ्गं तच्चारु-विचाराध्वनि धावितम् ।
सा निष्प्रत्यूहमित्यूह - वल्गया विदधे स्थिरम् ॥ ६० ॥ ( व्या० ) चेत इति । सा सुमङ्गला चेतस्तुरङ्ग चेतोहृदयमेव तुरङ्गोऽश्वस्तं इति अनेन प्रकारेण ऊहवल्गया ऊहो विचार एव वल्गा मुखरज्जुस्तया निष्प्रत्यूहं निर्गता: प्रत्यूहा विना यस्मिन् कर्मणि यथा भवति तथा स्थिरं निश्चलं विदधे । किंलक्षणं चेतस्तुरङ्गं तच्चारुविचाराध्वनि तेषां स्वप्नानां चार्मनोज्ञो यो विचारः स एव अध्वा मार्गस्तस्मिन् धावितं सत्वरं चलितम् ॥ ६० ॥
नाम्ना न केवलं वामा, वामावुद्धिगुणेष्वपि ।
ऊहे स्फुरन्ति सद्द्दष्टि-लालसे नालसेक्षणाः ।। ६१ ॥
( व्या० ) नाम्ना इति । वामा स्त्रिय केवलं नाम्ना न वामा' न प्रतिकूलाः किन्तु बुद्धिगुणेष्वपि बुद्धेर्गुणास्तेष्वपि तु वामा अलसेक्षणा' अलसे ईक्षणे यासां ता लिय. सद्दृष्टिलाल से सती चासौ दृष्टि सद्दृष्टिस्तस्या लालसे प्रशस्यलोचनगोचर ऊहे विचारे न स्फुरन्ति न समर्था भवन्ति ॥ ५२ ॥
कटीरस्तनभारेण, यासां मन्दः पदक्रमः ।
तासां विचारसामर्थ्य, स्त्रीणां संगच्छते कथम् ॥ ६२ ॥