________________
श्रीजैनकुमारसम्भवास्थ महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग. ६ (२४३
निर्नष्टनेत्रनिद्रा सा, स्वप्नान्तरचिन्तयत् । मुनिरप्राप्त पूर्वाणि, पूर्वाणीव चतुर्दश ॥ ५५ ॥
(व्या०) निर्नष्ट इति । सा सुमङ्गला निर्नष्टनेत्रनिद्रा निर्नष्टा प्रनष्टा नेत्रयोनिद्रा यस्याः सा निद्रारहितलोचना सती चतुर्दशस्वप्नात् अन्तर्मध्येऽचिन्तयत् । क इव मुनिरिव यथा मुनिः अप्राप्तपूर्वाणि न प्राप्तपूर्वाणि अप्राप्तपूर्वाणि तानि चतुर्दश पूर्वाणि चिन्तयति स्म इति ॥ ५५ ॥
स्मृतिप्रत्ययमानीते, मत्या स्वप्नकदम्बके । कदम्बकोरकाकार-पुलका साऽभवन्मुदा ॥ ५६ ॥
(व्या०) स्मृति । सा सुमङ्गला मुदा हर्षेण कदम्बकोरकाकारपुलका कदम्बस्य पुप्पं कदम्बं कदम्बपुष्पस्य कोरको मुकुले' तदाकारा पुलकाः यस्याः सा तत्सदृशरोमाञ्च। अभवत् । क सति मत्या बुद्धया स्वप्नकदम्बके स्वप्नानां कदम्बकस्तस्मिन् स्वप्नसमूहे स्मृतिप्रत्ययं स्मृते. प्रत्ययस्तं स्मृतिगोचरमानीते सति प्राप्ते सति ॥ ५६ ॥
नैयग्रोधोंऽकुर इच, प्रवर्धिष्णुः पुटं भुवः । आनन्दो हृदयं तस्याः, सोल्लासं निरवीवृतत् ॥ ५७ ।।
(व्या०) नैयग्रोध इति । प्रवर्धिष्णु. (भ्राज्यलकृग् निराकृग् भूसहिरुचिकृतिवृधि-प्णु: । ५-२-२८ । इ. स. शीलादिसदर्थे प्रवृध्धातोः इष्णु:), प्रवर्धते इत्येवं शीलः प्रवर्धिष्णु: प्रवर्धनशीलः आनन्दः तस्याः सुमङ्गलाया हृदयं सोल्लासं उल्लासेन सह वर्तते इति सोल्लासं सविकाश निरवीकृतत् निर्वतयामास निष्पादयामासेत्यर्थ । क इव नैयग्रोध (तस्येदम् । ६ । ३ । १६० । इ, स. इदमर्थे प्राजितादण् । ६-१-१३ । इ. सू. अण् । य्वः पदान्तात् प्रागैदीत् ७-४-५ । इ. स. न्यग्रोध इत्यत्र अणिपरे यकारात्पूर्व ऐकार ।) न्यग्रोधस्य अयं नैयग्रोधः अड्कुर. इव यथा वटसंबंधी अड्कुरो वर्धिष्णुर्भुव. पुटं सोल्लासं निर्वर्तयति ॥ ५७ ॥
यनिभालनभूः प्रीति-मैंने मम तनुं तनुम् । तत्फलावाप्तिजन्मा तु, मातु त्याममशंसा ।। ५८ ।।