________________
२४२) श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६
प्रविश्य वदनद्वारा, तस्याः स्वमा अमी समे । कूटस्थकौटुंबिकतां, भेजिरे कुक्षिमन्दिरे ॥ ५२ ॥
(व्या०) प्रविश्य इति । अमी गजादयोऽग्निपर्यन्ता समे सर्वे स्वप्नाः (यजिस्वपिक्षियतिप्रच्छो नः । ५ । ३ । ८५ । इ. सू. स्वप्धातो भावे नः ।) तस्याः सुमङ्गलाया. कुक्षिमन्दिरे कुक्षिरेव मन्दिर तस्मिन् उदररूप हे पदनद्वारा मुखबारेण प्रविश्य कूटस्थकौटुंबिकता कूटस्थश्चासौ कौटुंबिकश्च तस्य भावः स्थिरगृहपतित्वं भेजिरे सेवन्ते स्म । ५२ ।।
ततो गुणवजागारं, जजागार सुमङ्गला । साक्षात्तद्वीक्षणात्कर्तु-कामेव नयनोत्सवम् ॥ ५३ ॥
(व्या०) तत इति । तत ततोऽनन्तरं सुमङ्गला जजागार किविशिष्टां सुमङ्गला गुणात्रजागारं गुणाः औदार्यगांभीर्यचातुर्यधैर्यादयस्तेषां व्रज समूह स्तस्यागारं गृहम् । उत्प्रेक्षते साक्षात् प्रत्यक्षं तद्दीक्षणात् तेषां स्वप्नानां वीक्षणात् दर्शनात् नयनोत्सवं नयनयोनॆत्रयोरुत्सवं कर्तुकामा (तुमश्चमन कामे । ३ । २ १४० । इ. सू. कामशब्दे परे तुमो मलोपः कर्तु कामो यस्याः सा कर्तुकामा ।) ३० ॥ ५३ ॥
स्वमार्थास्तानपश्यन्ती, पुरः सा चिखिदे क्षणम् । प्राप्ता मत्कुक्षिमेवामी, इति द्राग मुमुदे पुनः ।। ५४ ॥
(व्या०) स्वप्न इति । सा सुमङ्गला पुरोऽने तान् स्वभार्थान् स्वप्नानामस्तान् स्वप्नपदार्थान् अपश्यन्ती न पश्यतीति अपश्यन्ती सती क्षणं चिखिदे खिद-ए द्विर्धातुः परोक्षाडे प्राक् तुस्वरेस्वरविधे । ४ । १ । १ । इ. सू. द्वित्व खिखिए द्वितीयतुर्ययो पूर्वो । ४ । १ । ४२ । इ. सू. पूर्वखस्य क. कडश्चञ् ४ । १ । ४६ । इ. सू. कस्य चत्वं चिखिदए इत्यत्र इन्ध्यसयोगात् परोक्षाकित् । ४ । ३ । २१ । इ सू. कित्वात् गुणो न भवति ।) खेदं प्राप्तवती । पुनः द्राग् गोत्रं इति कारणात् मुमुदे प्रमोदं धृतवती । इतीतिकिम् अमी स्वप्नार्था मत्कुक्षिमेव ममकुक्षिस्तमेव प्राप्ता. ॥ ५४ ।।