________________
श्रीजैन कुंमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग ६ (२४१
·
( व्या०) रक्तइति । सा सुमङ्गला रत्नराशि रत्नानां राशि समूहस्तं ददर्श । किं कुर्वन्तं रत्नराशिं रक्ताश्मरिष्टवैडूर्यस्फटिकानां रक्ताश्मानश्च पद्मरागमणय. अरिष्टानिच कृष्णरत्नानि वैडूर्याणिच नीलमणय' स्फटिकाच श्वतमणयः तेषां गभस्तय किरणा तै नभः आकाश चित्रफलकस्य चित्रस्य फलकं तम्य सनाभितां साहस्य चित्रपटकस्य सादृश्यं लंभयन्तं लंभयतीति लंभयन् तं प्रापयन्तं पुनः किंलक्षणं रत्नराशि उत्प्रेक्षते वार्धिना समुद्रेण दुहितु पुत्र्या लक्ष्म्या कंदुककेलये कदुकस्य केलिस्तस्यै दत्तमिव अपुण्यानां न विद्यते पुण्यं येषां ते तेषां निर्भाग्यानां दषीयांसं (गुणाद्ङ्गाद्देष्ठेयस् । ७-३-९ । इ. सू. दूरशब्दात् ईयसुप्रत्ययः । स्थूलदूरयुवह स्वक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्चनामिनः । ७ । ४ । ४२ । इ. सू. ईयसुप्रत्यये परे दूरशब्दे अकारविशिष्टस्य रकारस्य लुक् च उकारस्य गुण' | ओदौतोडवा । १ । २ । २४ । इ. सू. अवादेश: 1) अतिशयेनदूर इति दवीयान् तमतिदूरम् ॥ ४८-४९ ॥ युग्मम् ॥ आधारघाररोचिष्णुं, जिष्णुं चामीकरत्विषाम् ।
अजिह्म विलसज्ज्वाला - जिह्वमाहुतिलोलुपम् ।। ५० ।। श्मश्रुणेव तु धूमेन, श्यामं मखभुजां मुखम् | ददर्श श्वसनोद्भूत - रोचिषं सा विरोचनम् ॥ ५१ ॥ युग्मम् ||
-
( व्या० ) आधार इति । सा सुमङ्गला विरोचनमग्नि ददर्श । किंलक्षणमग्नि एतानि सर्वाणि अग्ने विशेषणानि ज्ञेयानि आधारधाररोचिष्णुं आधारं धृतं तस्य धारेण सेकेन रोचिष्णुं (भ्राज्यलड् कृग् निगेकृग् णु । ५ । २ । २८ इ. सू रुच्चातो शीलेऽर्थे इष्णु 1 ) देदीप्यमानं । चामीकरत्विषां चामीकरस्य सुवर्णस्य त्विष कान्तयस्तासां जिष्णु भूजे ष्णुक् । ५ । २ । ३० । इ. सू शीलादिसदर्थे ष्णुक् प्रत्यय 1 ) जयनशीलम् | अजिह्मविलज्ज्वालाजिह्वं न जिला अजिमा पटिष्टा विलसन्त्य प्रसरन्त्य ज्वाला' एव जिह्वा: यस्य तं आहुतिलोलुप आहुतौ होतव्यद्रव्यग्रहणे लोलुपं लंपटम् । उत्प्रेक्षते श्मश्रुणा इव कूर्चसदृशेन धूमेन श्यामं कृष्णं मखभुजां देवानां मुखं श्वसनोद्भूतरोचिषं श्वस'नात् पवनात् उद्भूता उत्पन्ना रोचि कान्तिर्यस्य तम् ॥ ५०-५१ ॥ युग्मम् ॥ इत्यष्टाविंशतिश्लोकै चतुर्दशस्वप्नदर्शनम् ।