________________
२४०) श्रीजेनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ उद्वृत्त पृष्ठं यैस्ते तैः उत्पाटितपृष्ठविभाग पाठीनैर्मत्स्यविशेषैः कृतद्वीपभ्रमं कृतो द्वीपस्य भ्रमो यस्मिन् तम् । उत्प्रेक्षते सतृषेः (सहस्तेन । ३ । १ । २४ । इ. सू. बहुव्रीहिसमासः ।) सतृषितैरिव चारि ददतीति वारिदास्तैर्मधै' (आतोडोऽह्वावामः ५ । १ । '७६ | इ. सू. वारिपूर्वकदाधातोः ङः । कचित् पीयते इति पीयमानं पीयमानं उदकं यस्मिन् तम् ॥ ४४-४५ ॥ युग्मम् ॥ सूर्य विवादिवोद्भूतं, जन्मस्थानमिवार्चिषाम् । चरिष्णुमिवरत्नाद्रिं, भारादिव दिवघुतम् ॥ ४६ ॥ दीव्यदेवाङ्गनं रत्न- भित्तिरुग्भिः क्षिपत्तमः । अभूदकर्षं तस्या, विमानं नयनातिथिः ॥ ४७ ॥ युग्मम् ॥
( व्या० ) सूर्य इति । विमानं तस्या: सुमङ्गलायाः नयनातिथि नयनयो-नैत्रयोरतिथिः अभूत् तया विमानं दृष्टमित्यर्थः । किंलक्षणं विमानं एतानि सर्वाणि विमानस्यैव विशेषणानि ज्ञेयानि उत्प्रेक्षते सूर्यबिम्बात् सूर्यस्य बिम्बं तस्मात् उद्भूतमिव प्रकटीभूतमिव उत्प्रेक्षते अर्चिषां तेजसां जन्मस्थानमिव जन्मनः स्थानमिव उत्प्रेक्षते चरिष्णुं ( भ्राज्यलङ्कृग् निराकृग्भूसहिरुचिवृतिवृधिचरि प्रजन पत्रप इष्णु । ५ । २ । २८ । इ. सू. शीलादिसदर्थे चरघातोः इष्णुः प्रत्यय 1 ) चरतीत्येवंशीलस्तं चलनशीलं रत्नाद्रिमिव रत्ना चलमिव । उत्प्रेक्षते भारात् दिवः स्वर्गात् च्युतमिव भ्रष्टमिव । दीयडेवाङ्गनं दीव्यन्तीति दीव्यन्त्यो देवानामङ्गनाः स्त्रियो यस्मिन् तत् क्रीडदेवस्त्रि रत्नभित्तिरुग्भिः रत्नानां भित्तयस्तासांरुग्भिः किरणैस्तमोंकारं क्षिपतीति क्षिपत् । अभ्रंषं ( कूलाम्रकरीपात् क५ः । ५ । १ । ११० । इ. सू. अभ्रकर्मपूर्वककपेः खः । खित्वान्मोऽन्तः ), अभ्राणि कपतीति अभ्रंमाकाशलग्नम् ॥ ४६-४७ ॥ युग्मम् ॥
राश्मरिष्टवैडूर्य-स्फटिकानां गभस्तिभिः ।
ल+भयन्तं नभश्चित्र – फलकस्य सनाभिताम् ॥ ४८ ॥ वार्धिना दुहितुर्दत्त-भित्र कंदुक केलये । रत्नराशि दवीयांस-मपुण्यानां ददर्श सा ॥ ४९ ॥