________________
२३८) श्रीजैन कुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६
झलायाः प्रीतिरूपनर्तकी तस्या नर्तने रङ्गाचार्यककृतकम्बां व्यडम्बयत् लक्षणया नाट्याचार्यकम्बायाः प्रापेति भाव । किक्कुर्वन् ध्वजः एतानि ध्वजविशेषणानि ज्ञेयानि अखंडदंडनद्रोऽपि अखडासौ दंडच तेन नद्र बनोऽपि सहजे सहजातं स्वाभाविकं दुस्त्यजं दु खेन त्यक्तुमशक्यं निजचापलं निजम्य चापलं तत् न त्यजन् | उत्प्रेक्षते किंकिणिकाकणे किंकिणिकानां क्षुद्रघंटिकाना कणा दास्तैः क्षुद्रघंटिकाशब्दे घोषन् इव घोषतीति घोषन् गदं कुर्वन्निव । उत्प्रेक्षते रजोभयेन रजसोभयं तेन व्योम्नि एव आकाशे एव कृतास्पद इव कृतं आस्पदं येन स कृतस्थान इव ॥ ३८-३९ ॥ युग्मम् ॥
I
स्त्रैणेन मौलिना धीये, सोऽहं साक्षी जगज्जनः । त्वं धत्सेतुच्छ मत्सम्प-ल्लुपाको हृदये पुनः ॥ ४० ॥ मुखन्यस्ताम्बुजचं चच्चंचरीकरवच्छलात् । इति प्रीतिकलिं कुर्वन्निव कुंभस्तयैक्ष्यत ॥ ४१ ॥ युग्मम् ॥
( व्या० ) त्रेणेन इति । तथा सुमङ्गलया कुंभ ऐक्ष्यत दृष्टः । किं कुर्वन् कुंभ. उत्प्रेक्षते मुखन्यस्ताम्बुजच्चं चच्चं चरीकरवच्छलात् मुखे न्यस्तं निहितं यत् अम्बुजं कमलं तस्मिन् चंचन् भ्रमन् य चंचरीको भ्रमर तस्य रवः शब्द तस्य च्छलात् इति प्रीतिकलिं प्रीत्याकलिस्तं कुर्वन् करोतीति कुर्वन् इव । इतीति किं स सर्वप्रसिद्धोऽहं स्त्रैणेन (षष्याः समूहे । ६-२-९ । इ. सू. प्राग्वतः स्त्रीपुंसानञ्स्नञ् । ६ । १ । २५ । इ. सू. स्त्रीशब्दात् नञ् प्रत्यय 1 ) स्त्रीणां समूहः स्त्रैणं तेन खीसमूहेन मौलिना मस्तकेन आघ्रीये धोये अत्र विषये जगज्जनः जगतोजन' साक्षी (साक्षाद् द्रष्टा । ७ । १ । १९७ । इ. सू. साक्षात् इति अव्ययात् द्रष्टा इत्यर्थे इन् प्रत्यय' । प्रायोऽव्ययस्य । ७ । ४ । ६५ । इ. सू. अन्त्यस्वरादेर्लुक्) वर्तते । त्वं पुन अतुच्छमत्संपल्लुम्पाको अतुच्छा महती या मम सम्पत् समृद्धिस्तस्या लुम्पाको अपहारको हृदये धत्से धरसि ॥ ४०-४१ ॥ अम्लानकमलामोद-मनेककविशब्दितम् । सद्वृत्त पालिनिर्देश- क्षमविष्टरडम्बरम् ॥ ४२ ॥