________________
श्रीजैनकुमारसम्भवाय महाव्यम् टीपासमलंकतम् ॥ सर्गः ६ (२३७
निविष्टकौमुदीसारं, कामुकैरिव कैरवैः । आस्ये विशन्तं पीयूष-मयूखं सा निरैक्षत ॥ ३५ ॥ युग्मम् ।।
(व्या०) चकोराणामिति । सा सुमङ्गला आस्थे मुखे विशन्तं प्रविशन्तं पीयूषमयूख पीयूषं मयूखा यस्य तं चन्द्रमसं निरक्षत दृष्टवती । किंलक्षणं चन्द्र एतानि सर्वाणि विशेषणानि चन्द्रस्यैव सुमनसा देवानां इव चकोराणां प्रीतिप्रदामृतं प्रीतिप्रदममृतं यस्य तं रोहिण्या इव रात्रर्यामिन्या हृदयंगमतां गतं हृदय गच्छतीति हृदयंगम भर्ता तस्य भावो हृदयंगमता तां भर्तृत्वं प्राप्तवन्तं कामुकरिव कैरवैः कुमुदै निर्विष्टकौमुदीसारं निविष्ट उपभुक्त कौमुद्या ज्योत्लाया. सारो यस्य तं उपमुक्त योगासारम् ॥ ३४-३५ ॥ युग्मम् ॥ क्षिपन गुहासु शैलानां, लोकादुरसारितं तमः। संकोचं मोचित पद्म-वनाद घुकशा दिशन ॥३६॥ न्यस्यन् प्रकाशमाशासु, तारकेभ्योऽपकर्षितम् । स्वमेऽपि स्मेरयामास, तस्सा हकमलं रविः ॥३७॥ युग्मम् ॥ __ (व्या०) क्षिपन्निति । रवि. सूर्यः तस्या सुमङ्गलाया हुकमलं हृदेवकमलं तत् स्वप्नेऽपि स्मेरयामास विकासयति स्म । किंकुर्वन् रवि. सर्वाणि विशेषणानि वे यानि लोकात् उत्सारित दूरितं तमः अन्धकार शैलानां (ज्योत्स्नादिभ्योऽण ७-२-३४ । इ सू. मत्वर्थे शिलाशब्दात् अण् शिला. सन्ति एषु इति शैलाः) पर्वतानां गुहासु गह्वरेषु क्षिपन् क्षिपतीति पनवनात् पानां वनं तस्मात् मोचितं त्याजितं संकोचं चूकशां घूकानां शतासां दिशन् दिशतीति ददत् तारकेभ्योऽपकर्षितं गृहोतं प्रकाशमाशासु दिक्षु न्यस्यन् स्थापयन् ॥ ३६-३७ ॥ अखंडदंडनद्धोऽपि, न त्यजभिजचापलम् । सहज दुस्त्यज घोष-निव किंकिणिकावणः ॥ ३८ ॥ ध्वजो रजोभयेनेव, व्योमन्येव कृतास्पदः ॥ तत्प्रीतिनर्तकीनाव्या-चार्यकम्बां व्यडंचयत् ॥ ३९ ॥ युग्मम् ।।
(व्या०) अखंड इति । ध्वज तत्प्रीतिनर्तकीनाट्याचार्यकम्बा तस्या सुमङ्गलायाः प्रीतिरेवनर्तकी तस्या नाट्याचार्यों रगाचार्यः तस्य कम्बा ता सुम