________________
२३६) श्रीजैनकुमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६
मात्र च पर
योजाणामि
यो मत्वा
पद्मवासा अक्षय्यसारौवतुन्टिलान् अक्षय्य. अत्रुटित सारस्य द्रव्यस्य ओघः समूहस्तेन तुन्दिलास्तान् (बाह्यर्थतुन्टादेरिलश्च । ७ । २ । ९ । इ. स. मत्वर्थ तुन्दशदात् इलप्रत्ययः तुन्दमस्ति एपामिति तुन्दिला.) लक्षणया स्थूलान् एवं विधान् निधीन संनिधौ समीपे दधिः (सस्त्रिक्रिदधिजज्ञिनेमिः । ५-२-३९ । इ. सू शीलादिसदर्थे ड्यन्तो दधि निपातः धत्ते इत्येवंशीला दधिः) दधाना दधिरिति निपातो ज्ञेय । पुन स्ववपुषः स्वस्य वपुः तस्य मयूखैः आत्मीयशरीरकिरणैः भूपाहेम्नः भूषायाम तस्य आभरणसत्कसुवर्णस्य अन्तरं नती विनाशयन्ती। किंकृत्वा नेत्रवक्त्रकरांघ्रिणा नेत्रे च वक्त्रं च करी च अंघी च एतेषां समाहारस्तेन प्राणितूर्याजाणामित्येकवचनं लोचनमुखहस्तपदैस्तां सुमङ्गलां पनाकरमयों मत्वा लक्ष्मी प पु वसतीति सुमङ्गलामाश्रयति स्म ॥ ३०-३१ ॥ भृङ्गैः सौरभलोभेना-नुगतं सेवकैरिव । तव्या दो पाशवत् पुण्य-भाजां कण्ठग्रहोचितम् ॥ ३२ ॥ प्रहितं प्राभृतं पारि-जातेनैव जगत्प्रियम् । असमं कौसुमं दाम, जज्ञे तन्नेत्रगोचरः ॥ ३३॥ युग्मम् ।।
(व्या०) भृङ्गैरिति ॥ कौसुमं कुसुमानामिदं कौसुमं दाम कुसुमसंबंधि दाम माला तन्नेत्रगोचर' तस्या सुमङ्गलाया नेत्रयोर्गोचर प्रत्यक्ष जज्ञे तया सुमङ्गलया माला दृष्टेति भावः । किंलक्षणं दाम मृड्गैः भ्रमरैः सौरभ्यलोभेन सौरभ्यस्य सुगन्धस्य लोभस्तेन अनुगतं परिमलस्य लोभेन वेष्टितं दान एव सर्वाणि विशेषणानि तयाः स्त्रिया दो.पाशवत् (स्यादेरिव । ७ । १ । ५२ । इ. सू. दो पाशशदात् इवार्थे वत् प्रत्ययः ।) दोष्णोः पाशस्तेन तुल्यं भुजपाशवत् पुण्यभाजां (भजोविण । ५ । १ । १४६ । इ. सू. पुण्यपूर्वक भज्धातो विण प्रत्ययः ।) पुण्यं भजन्तीति तेषां भाग्यवतां कण्डमहोचितं कण्ठस्य ग्रहस्तस्य उचितं कण्४क्षेपणयोग्यम् । उप्रेक्षते पारिजातेन प्रहितं प्रामृतमिव ढौकनामिव जगत्प्रियं जगतः प्रियं विश्वाभीष्टं असमं निरुपमम् ।। ३२-३३ ॥ युग्मम् ॥ चकोराणां सुमनसा-मिव प्रीतिप्रदामृतम् । रोहिण्या इव यामिन्या, हृदयंगमतां गतम् ।। ३४ ॥