________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२३५
मृत्तिकाखंडवत् स्यन्तं पातयन्तं उत्प्रेक्षते सशृङ्गं शुनै सह वर्तते इति तं कैलासमिव कैलासगिरिमिव स्थितम् ॥ २६-२७ ॥ युग्मम् ॥
अप्यतुच्छतया पुच्छा-घातकम्पितभूतलम् । अप्युदारदरीकोड - क्रीडत्क्षेडाभयङ्करम् ॥ २८ ॥ सद्यो भिमकुंभोत्थ- व्यक्तमुक्तोपहारिणम् । हरिणाक्षी हरिं स्वन - दृष्टं सा बह्वमन्यत ॥ २९ ॥ युग्मम् ॥
( व्या० ) अपीति । सा हरिणाक्षी हरिणस्य मृगस्य अक्षिणी इव अक्षिणी यस्याः सा मृगलोचना सुमङ्गला स्वप्नदृष्टं स्वप्ने दृष्टस्तं हरिं सिंहं बहु अमन्यत बहु मन्यते स्म । किंलक्षणं हरिं एतानि सर्वाणि हरेर्विशेषणानि अतुच्छतया न तुच्छ अतुच्छस्तस्य भावोऽतुच्छतया धनतया पुच्छाघातकम्पितभूतलं पुच्छस्य आघातेन कम्पितं भुवस्तलं येन तमपि पुच्छप्रहारेण कम्पितपृथिवीतलमपि । उद्धारदरीकोडकीडत्क्ष्वेडाभयङ्कर (मेघर्तिभयाभयात् ख' । ५ । १ । १०६ । इ. सू. भयपूर्वक कृग्धातोः ख । खित्य नव्ययारुषोर्मोऽन्तोदस्वश्च । ३-२-१११ । इ. सू. मोऽन्तः । ) अपि उदाराचा सौदरी च विशालगुहा तस्था क्रोडे उत्संगे क्रीडन्ती क्ष्वेडा सिंहनादस्तेन भय करोतीति तमपि । सधस्तत्कालं भिन्नभकुमोत्थव्यक्तमुक्तोपहारिणं भिन्नाश्च ते इभाव विदारितगजाः तेषां कुंभेभ्यो गंडस्थलेभ्य उत्था या व्यक्ताः प्रकटा मुक्ता मौक्तिकानि उपहरति ढौकयतीति भिन्नेभ० रौद्रोऽपिहरिर्मौक्तिकदायकत्वात् बहुमान्यो जात इति भावः ॥ २८ ॥ २९ ॥ युग्मम् ॥
निधीनक्षय्य सारौघ - तुन्दिलान् सन्निधौ दधिः । भूषाम्नः स्ववपुषो, मयूखैरन्तरं प्रती ॥ ३० ॥ पद्माकरमयीं मत्वा, नेत्रवकरांघ्रिणा ।
पद्मवासानिवासार्थ - मिवोपनमति स्म ताम् ॥ ३१ ॥ युग्मम् ॥
( व्या० ) निधीनिति । पद्मवासा पद्मेवासो निवासो यस्या' सा पद्मवासा
लक्ष्मीस्तां सुमङ्गलां निवासार्थमिव निवासहेतोरिव उपनमति स्म । किंलक्षणा