________________
२३४) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६
गण्डशैलपरिस्पर्धि-कुंभं कर्पूरपाण्डुग्म् । द्विरदं मदसौरभ्य-लुभ्यद्रमरमैक्षत ।। २५ ।। युग्मम् ।।
(व्या०) प्रथममिति ।। सा सुमङ्गला प्रथमं द्विग्दं गजेन्द्रं ऐसत दृष्टवती। किंलक्षणं गजेन्द्र तानि सर्वाणि गजेन्द्रलक्षणानि ज्ञेयानि लसहन्तदंड लसत इति लसन्तौ दन्तौ एवं दण्डौ यस्य स तं उल्लसद-तमुसलं पुनः उच्छुण्ड उर्द्ध शुण्डा यस्य स उच्छुडस्तं उर्वीकृतशुण्डादण्ड पुन उन्नतमुच्चैस्तरम् । उत्प्रेक्षते भूरिभारात् भूरिश्वासौ भारश्च तस्मात् बहुभारात् भुवः भङ्ग भीत्येव भङ्गात् भीति
या पृथिवीमङ्गभयेनेव मृदुचारिणं मृदुचरतीति मृदुचारी तं मन्दगमनम् । पुनः गण्डशैलपरिस्पर्धिकुंभ गण्डशैल परिस्पर्धेते कुंभौ यस्य तं पर्वत सत्कस्थूलोपलेनसह स्पर्धाकुर्वत् कुंभस्थलं कर्पूरपाण्डूरं कर्पूरमिव पाण्डरस्तं कर्पूरवद् घवलं मदसौरभ्यलुभ्यभ्रमर मदस्य सौरभ्येण मदपरिमलेन लुभ्यन्तो भ्रमरा यस्य तम् । युमिम् । २४-२५ ॥
भाग्यैः शकुनकामाना-मिवगर्जन्तमूर्जितम् । शुभ्रं पुण्यमिवप्राप्त, चतुश्चरण चारुताम् ।। २६ ॥ सिन्धुरोधक्षम रोधः, स्यन्तं मुल्लवलीलया। सशृङ्गमिवकैलासं, ककुमन्तं ददर्श सा ॥२७॥ युग्मम् ।।
(०या०) भाग्यैरिति । सा सुमङ्गला ककुमन्तं (तदस्याऽस्त्यस्मिन्नितिमतुः ७ । २ । १ । इ. सू. ककुद् शब्दात् मतुः । नोर्यादिभ्य । २ । १ । ९९ । इ. सू. ककुद् शब्दस्य अादिगणे पाठात् मतोर्मकारस्य चकाराभाव. 1) ककुद् अस्यास्तीति ककुभान् तं वृषभं ददर्श । किंलक्षणं ककुमन्तं एतानि सर्वाणि ककुमत एव विशेषणानि गर्जन्तं गर्जतीति गर्जन् तं अर्जित बलवन्त उत्प्रेक्षते शकुनकामानां शकुनानि कामयन्ते इति तेषां शकुनाभिलाषिणां भाग्यैरिव चतुश्चरणचारुतां चत्वारश्चते चरणाश्च तैश्चारुता तां चतुर्भिश्चरणैमनोज्ञत्वं प्राप्त शुभ्रमुचलं पुण्यमिव । सिन्धुरोधक्षम सिन्धोः रोधस्तस्मिन् क्षमस्त नधारोधसमर्थ एवंविधं रोधस्तटं मृलवलीलया मृदो मृत्तिकाया लवो लेशतम्य लोला तया