________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२३३
(व्या०) निद्रेति । सा सुमङ्गला निद्रानिभृतकाया निद्रया निभृतः कायो देहो यस्था. सा निद्रानिश्चलशीग सती नाकियोषितां नाकिनां देवानां योपितो नार्यस्तासां देवानानां लोचननत्र यासात् सुकरत्वेन लेह्यसर्वाङ्ग लावण्या सर्व च तत् अङ्ग च सर्वाङ्गं साङ्गस्य लावण्यं लेटु योग्यं लेह्य (वर्णव्यञ्जनाद् धम् । ५ । १ । १७ । इ. सू लिहधातोय॑ण ) मास्वाधं सर्वाङ्गलावण्यं (वर्णदृढादिभ्यष्टयण च वा । ७ । १ । ५९ । इ सू भावेऽर्थे लवणशब्दात् ट्यण् ।) यस्था सा समजायत जाता ॥ २१ ॥
निर्वातस्तिमितं पद्म-मिवामुष्या मुख सुखम् । न्यपीयताप्सरोनेत्र-भृङ्गलावण्यसन्मधु ॥ २२ ॥
(व्या०) निर्वात इति । अमुष्याः सुमङ्गलाया लावण्यसन्मधु लावण्यमेव सत् विद्यमानं मधु मकरन्दो यस्मिन् तत् एवंविधं मुख वदनं सुखं यथा भवति तथा अप्सरोनेत्रभृङ्गै अप्सरसानेत्राणि भृङ्गास्तै देवाङ्गनासन्कलोचनभ्रमरैन्यपीयत पीतम् । उत्प्रक्षते निर्वातस्तिमितं निर्यात पातरहितदेशे स्तिमितं निश्चलं पद्ममिवकमलमिव ॥ २२ ॥
आप्तनिद्रासुखा सौख्य-दायीति स्वप्नदर्शनम् । अन्वभूत् पुण्यभूमी सो-त्सवान्तरभिवोत्सवे ॥ २३ ॥
(व्या०) आप्तेति । सा सुमङ्गला आतनिद्रामुखा आप्त प्राप्त निद्राया। सुख यया सा सती सौख्यदायि (सुखमेव सौख्यं भेषजादिभ्यष्टयण् । ७।२। १६४ । इ. सू स्पार्थेवा ट्यण् । अजाते शोले । ५ । १ । १५४ । इ. सू. शीलेऽर्थे दाधातो. णिन् ।) सौख्यं ददातीति तत् इति अमुना प्रकारेण वक्ष्यमाणं स्वमदर्शनं स्वप्नस्य दर्शनं तत् अन्वभूत् अनुभवति स्म । किलक्षणा सुमङ्गला पुण्यभूमी पुण्यस्थान किमिव उत्सवान्तरमिव अन्य उत्सव इति उत्सवान्तर यथा उत्सवे अन्यउत्सव अनुभूयते ॥ २३ ॥
प्रथमं सा लसद्दन्त-दंडमच्छुडमुन्नतम् । भूरिभाराद्भुवो भङ्ग--भीत्येव मृदुचारिणम् ।। २४ ॥