________________
२३२) श्रीजनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६
स्रोतांसि निभृतीय, तृपस्येव नियोगिनः।। निशि निर्वत्रिरे तस्याः, स्वस्वव्यापारसंवृतेः ॥१८॥
(व्या०) स्रोतांसीति । तस्या सुमङ्गलाया. स्रोतांसि इन्द्रियाणि स्वस्वव्यापारसंकृते. स्वस्य स्वस्य व्यापारा तेषां संवृतिस्तस्याः निभृतीभूय (कृभ्वस्तिभ्यां फक्तभ्यां प्रागतत्तत्वे च्विः । ७ । २ । १२६ । इ. सू भूधातुयोगे निभृतशब्दात् वि ईशवायवर्णस्याऽनव्ययस्य । ४ । ३ । १११ । इ. सू. निभृतशब्दस्य अस्य ई । गतिकन्यस्तत्पुरुष । ३ । १ । ४२ । इ. सू. तत्पुरुषः समासः । अनञः क्त्वो यप् । ३ । २ । १५४ । इ. सू. क्त्वो यबादेशः ।) न निभृतं अनिमृतं अनिभृतं निभृतं भूत्वा इति निमृतीभूय निश्चलीभूय निविरे निति प्रापुः । के इव नृपस्य राज्ञो नियोगिनो व्यापारिण इव यथा नृपस्य राज्ञो नियोगिन' स्वस्वव्यापारसवृतेनिति समाधि प्राप्नुवन्ति ॥ १८ ॥
तदा निद्रामुद्रितहम् , भवने सा बनेऽब्जिनी । निद्राणकमला सख्यो-चितमाचेतुर्मिथः ॥ १९ ॥
(०या०) तदेति । तदा तस्मिन्नवसरे सा सुमङ्गला भवने गृहे निदामुद्रितहम् निद्रया मुद्रिता संकुचिता हर दृष्टि यस्याः सा सती वने अजिनी निद्राणकमला निद्राणानि संकुचितानि कमलानि यस्याः सा द्वे अपि मिथः परस्पर सख्योचितं सख्यस्थ मैत्र्या उचित योग्यं सदृशं आचे(तुः ॥ १९ ॥
आसतामपरेमौनं, मेजुराभरणान्यपि । असंचरतया तस्या, निद्राभङ्गभयादिव ॥ २० ॥
(व्या०) आसतामिति । अपरे आसतां दूरे सन्तु तस्या सुमङ्गलाया। आभरणान्यपि भूषणा-यपि असंचरतया संचरस्य भाव संचरता न संचरता असंचरता तया नि संचरत्वेन मौनं भेजु । उत्प्रेजते तस्या सुमङ्गलाया निद्राया. भारतस्मात् भयं तस्मादिव ॥ २० ॥
निद्रानिभृतकाया सा, नायासानाकियोषिताम् । लोचनलेघसर्वाङ्ग-लावण्या समजायत ॥ २१ ॥