________________
श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्ग ६ (२३१
पूर्वमप्सरसामङ्के, स्थित्वा तत्पादपङ्कजे । पश्चादवापत दिव्य - तूलीमौलिवतंसताम् ॥ १४ ॥
( व्या० ) पूर्वमिति । पूर्व प्रथममप्सरसामङ्के देवाङ्गनानामुत्सङ्गे स्थित्वा पश्चात तत् पादपङ्कजे तस्या सुमङ्गलाया पादौ एव पङ्कजे चरणकमलौ दिव्यतूलीमौलिवतंसतां दिव्या चासौ तूली च दिव्यतूली हंसतूली तस्या मौलिवतंसतां मुकुटत्वमवापत प्राप्ते ॥ १४ ॥
दीपाः सस्नेहपटवोऽभितस्तां परिवत्रिरे ।
ध्वान्वारातिभयं भेत्तुं जाग्रतो यामिका इव ॥ १५ ॥
( व्या० ) दीपा इति । दीपा अभित समन्तत तां सुमङ्गलां परिवत्रिरे परिवृण्वन्ति स्म । किंलक्षणा दीपा सस्नेहपटव स्नेहेन सह वर्तन्ते इति सस्नेहा ते चते पटवश्च स्नेहसहिता पटवश्व पटिष्ठाः । उत्प्रेक्षते ध्वान्तारातिं ध्वान्तं तम एव अराति शत्रुस्तं भेत्तुं अन्धकारशत्रुभयं छेत्तु जाग्रतो यामिकाः हरिका इव ॥ १५ ॥
विसृज्य सा परप्रेमालापपात्रीकृताः सखीः । निद्रां सुखार्थामेकान्त - सखीं संगन्तुमैहत ॥ १६ ॥
( व्या० ) विसृज्येति । सा सुमङ्गला परप्रेमालापपात्रीकृताः प्रेम्णा स्नेहेन आलाप परश्वासौ प्रेमालापश्च प्रकृष्टस्नेहवार्ता तस्य न पात्राणि अपात्राणि अपात्राणि पात्राणि कृता एवंविधाः सखी विसृज्य विहाय निद्रां संगन्तु निद्रासङ्गममैहत इच्छति स्म । किंलक्षणां निद्रां सुखार्थी सुखमेव अर्थ · प्रयोजनं यस्या सातां सुखकारिण पुन एकान्तसखों एकान्तसखी ताम् ॥ १६ ॥ तस्याः सुषुप्सया जोष - जुषोऽजायत शर्मणे । मोहो निद्रानिमित्तः स्याद्दोषोऽप्यवसरे गुणः ॥ १७ ॥
( व्या० ) तस्या इति । तस्या' सुमङ्गलाया. निद्रानिमित्त निद्रा निमित्तं कारणं यस्य स मोह' शर्मणे सौख्याय अजायत जातः । किंलक्षणायाः सुमङ्गलायाः सुषुप्सया स्वतुमिच्छा तया सुखायनवाञ्छया जोपजुप जोषं मौनं जुपते सेवते इति तस्या मौनसेविन्या दोपोऽपि अवसरे समये गुण स्यात् ॥ १७ ॥
1