________________
२३०) श्रोजेनकुमारसम्भपाख्यं महाकाव्यम् टोकासमलकृतम् ॥ सर्गः ६
(व्या०) लतेति यत्रावासे लतागुल्मोत्थित लताना बल्लीनां गुल्मानि तेभ्यः उत्थित वल्लीसत्कगुल्मसमुत्पन्नो मरुचौर. मरुत् एव चौर पवनरूपचौर मृगीशां मृगीणांगिवदृक् यासा तासां स्त्रीणां स्वेदबिन्दन स्वेदस्य बिन्दव स्वेदविन्दवस्तान् मुक्ताधिया मुक्ताना धीस्तया अहरत् हृतवान् । किंलक्षणो मरुचौर जालावना जालस्य गवाक्षस्य अव्वा मार्गस्तेन आगतः प्रविष्ट ॥१०॥
वीक्ष्य यत्परितोऽध्यक्ष, वनं सर्वतुकं जनः । श्रद्धेयमागमोक्त्यैवाभिननन्द न नन्दनम् ॥ ११ ॥
(व्या०) वीक्ष्येति । जनो लोको यत्परितो यस्यावास प्य परित समन्ततः सर्वर्तुक सर्वे तवो यस्मिन् तत् सर्वर्तुपु साधारण अध्यक्ष प्रत्यक्षं वनं वोध्य दृष्ट्वा नन्दनं वनं नन्दनाख्यं वनं न अभिननन्द न प्रगशंस । किंलक्षणं नन्दनं वन आगमोक्यैव आगमाना गास्त्राणामुक्तिर्वचनं तयैव श्रद्धेयं (यएचातः । ५ । १ । २८ । इ सू. अत्पूर्वक धाधातो. य च धातोराकारस्य एवम् । ) श्रद्धालु योग्यं न तु प्रत्यक्षम् ॥ ११ ॥
श्वेतोत्तरच्छदं तत्र, दोलातल्पमुपेयुषी। हंसी गगातरङ्गात्त-रङ्गामभिषभूव सा ॥१२॥
(व्या०) श्वेतइति । सा सुमङ्गला तत्र तस्मिन्नावासे श्वेतोत्तरदपटं श्वेत. उत्तरप्छदस्य (पुन्नाम्नि घः । ५। ३ । १३० । इ. सू संजायां करणे घ. उत्तरं छाधते अनेनेति उत्तरच्छद ।) पटो यस्मिन् तत् श्वेतउत्तरपटयुक्तं ढोलातल्पं उपयुषी पेयाय इति उपयुपी ढोलायमानशय्या प्राप्नवती सती हंसोमभि बभूव पराभवति स्म । किंलक्षणां हंसी गगातरजात्तरङ्गां गङ्गाया तरङ्गा कल्लोलास्तेषु आत्त गृहीतो र आनन्दो यया सा ता गङ्गानढोकल्लोलहीतानन्दाम् ॥१२॥
दक्षिणं तमुरीचक्रे, विवाहे भगवानिति । वामा वाममुपष्टभ्य, पाणिं तस्मिन्नशेत सा ।। १३ ।।
(या०) दक्षिणमिति । सा वामा सुमङ्गला तस्मिन् शयनीये इति कारणात् वाम पाणिं हस्तमुपष्टभ्य अशेत स्वपिति स्म । इतीति किं विवाहे भगवान् तं दक्षिणागि हस्तामुरी चक्रे अङ्गीकृतवान् ॥ १३ ॥