________________
श्रीजैनकुमारसम्भवाख्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२२९
(व्या०) यदिति । यत्रावासे बाला• कं जनं न अजीहसन् न हासयन्ति स्म । किंलक्षणा बाला. यामणिक्षोणिसंक्रान्तं मणीनां रत्नानां क्षोणि पृथिवी मणिक्षोणि यस्यावासस्य मणिक्षोणिस्तस्यां संक्रान्तः प्रतिबिम्बितस्तमिन्दु चन्द्र कन्दुकशङ्कया कन्दुकस्य शङ्का तया आदित्सव आदातुमिच्छन्तीति आदित्सन्ति आदित्सन्तीति आदित्सवो ग्रहीतुमिच्छव । पुन भग्ननखा. भन्ना नखा येषां ते भन्ननखा ॥ ७ ॥
व्यालम्बिमालमास्तीर्ण-कुसुमालि समन्ततः । यददृश्यत पुष्पास्त्र-शस्त्रागारधिया जनैः ॥ ८ ॥
(व्या०) व्यालम्बीति । जनैलॊकैर्यद् आवासगृहं पुष्पास्त्रशस्त्रागारधिया पुष्पाणि एव अस्त्राणि यस्य स पुष्पास्त्र काम तस्य कामस्य शस्त्राणामायुधानाभगारं गृहं तस्य धी बुद्धिस्तथा कामदेवस्य आयुधशालाबुद्धया अदृश्यत व्यलोकि । किंलक्षणं गृहं व्यालम्बिमालं व्यालम्बिन्यो माला यस्मिन् तत् लम्बमानस्रक । पुन समन्ततः सर्वत. आत्तीर्णकुसुमालि कुसुमानामालय पडूक्तयः आस्तीर्णा कुसुमालयो यस्मिन् प्रसारितपुष्पश्रेणि ॥ ८ ॥
कौतुकी स्त्रीजनो यत्र, पुरा फाटिकभित्तिषु । स्पष्टमाचष्ट पृष्ठस्थ-चेष्टितान्यनुविम्वनैः ॥९॥
(व्या०) कौतुको । यत्रावासे कौतुको कौतुकमस्ति अस्येति कौतुकी स्त्रीजन स्त्रीणांजन स्त्रीजन पुर• अग्रे स्फाटिभित्तिषु स्फटिकानां विकारा स्फाटिक्य (विकारे । ६ । २ । ३० । इ. सू विकारे अर्थ प्राग् जितादण् । ६ । १ । १३ । इ. सू स्फटिकशब्दादण अणयेकण्ननटिताम् । २।४ २० । इ मू स्त्रिया डी । पुम्वत् कर्मधारये । ३ । २ । ५७ । इ सू. पुंवत् ।) स्फाटिक्यश्चता भित्तयश्च तासु स्फटिकमणिसत्कभित्तिमध्ये अनुबिम्वनैः प्रतिबिम्बन पृटस्थचेष्टितानि पृष्ठस्थाना पश्चात् स्थितानां चेष्टितानि स्पष्टं आचष्ट कथितवान् ॥ ९ ॥
लतागुल्मोत्थितो यत्रा-हरजालाध्वनागतः । मुक्ताधिया मरुच्चौरः, स्वेदविन्दून् मृगीदृशाम् ॥१०॥