________________
२२८) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम्-टीकासमलंकृतम् ।। सर्गः ६.
(व्या०) सौवर्ण्य इति । यत्रावासे रत्नस्तम्भेषु रत्नानां स्तम्भास्तेषु सौवर्यः सुवर्णमय्यः पुत्रिकाः रेजिरे शोभिता । उत्प्रेक्षते । देव्याः सुमङ्गलाया लीलां अध्येतुं पठितुं आगता देवाङ्गना इव देवानाममराणामङ्गना नार्य इव ॥४॥ - दह्यमानाः काकतुंडा, यत्र धूमैत्रिसृत्वरैः। .
खपति- वर्णगन्धाभ्यां, निन्युर्वन्तराण्यपि ॥५॥.. ..
(व्या०) दह्यमाना इति । यत्रावासे काकतुंडा. कृष्णागरयो दह्यमानाः दह्यन्ते इति दह्यमानाः सन्तः विसृत्वरै. ( सजीणनशष्ट्वरप् । ५-२-७७ । इ. सू. शीलादिसदर्थे सधातोः कित् ट्वरप् । ह्रस्वस्य तः पित्कृति । ४-४११३ । इ. सू त् अन्तः । ) विसरन्तीत्येवंशीलाः तैः प्रसरणशीलधूमः दार्वतराण्यपि अन्यानिदारूणि इति दार्वन्तराणि तानि काष्ठान्तराण्यपि वर्णगधाभ्यां वर्णश्च गन्धश्च वर्णगन्धौ ताभ्यां स्वपक्ति स्वस्य पक्ति निन्युर्गहीतवन्तः ॥ ५ ॥
उत्पित्सव इवोत्पक्षा, यत्र कृत्रिमपत्रिणः । आरेभिरे लोभयितुं, बालाभिश्वारुपूणिभिः ॥ ६ ॥
(व्या०) उत्पित्सव इति । यत्रावासे कृत्रिमपत्रिणः क्रिययानिवृत्ताः कृत्रिमाः ( ड्बितस्त्रिमा तत्कृतम् । ५-३-८४ - इ. सू. कृग्वातोः त्रिम प्रत्ययः ) पत्राणि पिच्छानि एषां सन्तीति पत्रिणः कृत्रिमाश्च ते पत्रिणश्च कृत्रिमपत्रिणः वालाभिर्बालिकाभिः चारपूणिभिः चारवश्चताश्चूणयश्च चारुणयस्ताभिः मनोज्ञभक्षैः लोभयितुमारेभिरे । उत्प्रेक्षते । उत्पक्षाः उत् ऊर्ध्व पक्षाणि येषां ते उपक्षाः ऊतिपक्षाः सन्तः उत्पित्सव उत्पतितुमिच्छन्तीति उत्पित्सन्ति उत्पित्सन्तीति उत्पित्सवः (रभलभशकपतपदामिः । ४-१-२१ । इ. सू. सादौ सनि पत् धातो. स्वरस्य इ. नच द्विः । सन् भिक्षासेरुः । ५-२-३३ ।। इ. सू. सन्नन्त पित्सधातो. उः । ) उत्पतितुकामा इव ॥ ६ ॥
यन्मणिक्षोणिसंक्रान्त-मिन्दुं कन्दुकशङ्कया। आदित्सवो भन्मनखा, न बालाः कमजीहसन् ॥७॥