________________
श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंहतम् ॥ सर्गः ६ (२२७
॥ अथ सप्तमः सर्गः प्रारभ्यते ॥ अथ प्रथमनाथस्य, प्रिया तस्य सुमङ्गाला । अध्युवास निजं वास-भवनं यामिनीमुखे ॥ १॥
(०या०) अथेति । अथ अनन्तरं तस्य प्रथमनाथस्य (पूर्वापरप्रथमचरमजयन्यसमानमध्यमध्यमवीरम् । ३-१-१०३ । इ. सू. कर्मधारयसमासः ) प्रथमश्चासौनाथश्च तस्य श्रीयुगादिदेवस्य प्रिया सुमङ्गला यामिनीमुखे यामिन्या रजन्या मुख तस्मिन् सायंकाले निजमात्मीयं वासभवनं वासस्य निवासस्य भवन तत् आवासं अभ्युवास उषिता ॥ १ ॥
यत्र ज्वलत्प्रदीपानां, प्रभाप्रारभारभापितम् । धृत्वा धूमशिखेत्याख्यां-तरं दूरेऽगमत्तमः ॥२॥
(व्या०) यत्रेति । यत्र वासभवने ज्वल प्रदीपभाप्राग्भारभापितं ज्वलन्तश्च ते प्रदीपाश्च जाज्वल्यमानप्रदीपास्तेषां प्रभाः कान्तयस्तसां प्रामार: समूहस्तेन भापितं त्रासितं तमोऽन्धकार धूमशिखा धूमस्य शिखा इति आल्यान्तरं अन्या आख्या इति आल्यान्तरं ( मयूरव्यंसकत्यादयः । ३-१-११६ । इ. सू. समासः ) अपरं नाम धृत्वा दूरे अगमत् दूरंगतम् ।। २ ॥
यत्र नीलामलोल्लोचा-मुक्ता मुक्ताफलस्रजः। बभुनेभस्तलाधार-तारकालक्षकक्षया ॥३॥
(व्या०) यत्रेति । यत्रावासे मुक्ताफलस्वज. मुक्ताफलानां सज: नमस्तलाधारतारकालक्षकक्षया नमस आकाशस्य तलं तदेवाधारो यासां ताः ताश्चताः तारकाश्च तासां लक्षाणि तेषां कक्षया सादृश्येन बभु शोभिताः । किलक्षणा मुक्ताफलसजः नीलामलोल्लोचामुक्ताः नीलेषु कृष्णवणेषु अमलेषु निर्मलेषु डल्लो. चेषु-आमुक्ता बद्राः ॥ ३ ॥
सौवर्ण्यः पुत्रिका यत्र, रत्नस्तम्भेषु रेजिरे । अध्येतुमागता लीलां, देव्या देवाङ्गाना इव ॥ ४ ॥