________________
२२६) श्रीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ कौमारकेलिकलनाभिरमुष्य पूर्व - लक्षाः षडेकलवतां नयतः सुखाभिः । आद्या प्रिया गरभमेणदृशामभीष्टं, भर्तुः प्रसादमविनश्वरमाससाद ७४
( ०या० ) कौमार इति । षट्त्रिंशत् निमेषैरेकोलव उच्यते सुखाभिः सुखं कुर्वतीभिः कौमारकेलिकलनाभिः कौमारस्य बाल्यस्य केलयः क्रीडास्तासां कलनाः ताभिः बाल्योचितक्रीडाकरणै षट् पूर्वलक्षा. एकलवतां एकश्वासौ लवश्च तस्य भावः एकलवता तां नयतः नयतीति नयन् तस्य अमुष्य भगवत आद्या (दिगादिदेहांशाद्यः । ६-३-११४ । इ. सू. भवेऽर्थे आदि शब्दात् य आदौ भवा आद्या ।) प्रिया सुमंगला पत्नी गरभं ( कुशगृशलिकलिक डिगर्दिगसिर मिर्वाड હૃહૃદં वल्लेरभः । ३२९ । इ. उ. सू. गृत् निगरणे धातोः अभः प्रत्ययः ) गर्भमाससाद प्राप । किं विशिष्टं गरमं एणदृशां स्त्रीणां अभीष्टं पुनर्भर्तु स्वामिनः प्रसादं प्रसादरूपं अविनश्वर ( सृजीणून राष्ट्रवरप् । ५-२-७७ । इ. सू. शीलादिसदर्थे न धातोः कित् ट्वरप् प्रत्ययः । ) विनश्यतीति विनश्वरः न विनश्वरोऽविनश्वरस्तम् ॥ ७४ ॥
सूरिः श्रीजयशेखरः कविघटाकोटीरहीरच्छवि-, धम्मिल्लादिमहाकवित्वकलना कल्लोलिनी सानुमान् । वाणीदत्तवरश्चिरं विजयते तेन स्वयं निर्मिते,
सर्गो जैनकुमारसंभवमहाकाव्ये ऽभवत् षष्ठकः ॥ ६ ॥ इतिश्रीमदच्छीयञ्चलगच्छेकवि चक्रवर्त्तिश्रीजयशेखरसूरिविरचितस्य श्रीजैनकुमारसंभवमहाकाव्यस्य सच्छिष्य श्रीधर्म शेखर महोपाध्यायविरचिताया टीकायां श्री माणिक्य सुन्दरशोधिताया षष्ठसर्गव्याख्या
समाप्ता ॥ ६ ॥
SAI