________________
श्रीजैनकुमारसम्भवाख्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२२५
तत्ताहगाहारविहारवासो - निवासनिर्नाशितशीतभीतिः । शरीरसौख्येन स शैशिरीणां, निशां न सेहे विपुलत्ववादम् ।। ७२ ।।
( व्या० ) तदिति । स भगवान् शैशिरीणां (तस्येदम् । ६-३-१६० । इ. सू. इदमर्थे भर्तुसंध्यादेरण् । ६-३-८९ । इ सू शिशिरशब्दात् अण् टीव्वात् डी: 1) शिशिरस्य इमाः शैशिर्यस्तासां शिशरसंबंधिनीनां निशां रात्रीणां शरीरसौख्येन शरीरस्य सौख्यं ( भेषजादिभ्यष्टय । ७-२-१६४ । इ. सू. सुखशब्दात् स्वार्थेय्यण् सुखमेव सौख्यम् । ) तेन विपुलत्ववादं विपुलस्य भावभावस्तस्य वादस्तं विस्तीर्णभावं न सेहे । किंलक्षणो भगवान् तत्ताहगाहारवासो निवासनिर्नाशितशीतमिति आहाराश्च भोजनानि विहाराश्च विचरणानि वासांसि च वस्त्राणि निवासाश्च गृहाणि तादृशश्च ते आहारविहारवासीनिवासाश्च । ते च ते ताध्गाहारविहारवासोनिवासाश्च तैर्निर्नाशिता शीतात् भीतिर्येन सः । उक्तं च 'तप्तं जलं तापनतैलनूप्लोताम्बूलतूलीवसनं तरुण्य । तमोप्रतापः कथितं पयोऽपि शरीरिणां शीतभये सुखाय ॥ ७२ ॥
इति ऋतूचितखेलनकैर्न कै - हृतहृदश्वरतोऽस्य यथारुचि । सुकृत सूरसमुत्थधृतिप्रभा - परिचिता अरुचन्नखिला दिनाः ॥ ७३ ॥
( व्या० ) इतीति । अस्य भगवतो यथारुचि (योग्यता वीप्सार्थानतिवृत्ति सादृश्ये । ३-१-४० । इ. सू. अर्थानतिवृत्तौ यथारुचि । इत्यत्र अव्ययी - भावसमास ) रुचिमनतिक्रम्य इतियथारुचि स्वेच्छया चरत सत' अखिला समस्ता दिना अरुचन् - अदीप्यन्त । किंविशिष्टा दिना सुकृतसुरसमुत्थधृतिप्रभापरिचिता सुकृतं पुण्यमेव सूर सूर्य तत समुत्था धृतिः समाधि एव प्रभा कांतिस्तया परिचिता सेविता । किंविशिष्टस्य भगवत इति ऋतूचितखेलनके' ऋतूनामुचितानि यानि खेलनकानि क्रीडनकानि तै कैर्न हृतहृद हृतं हृदयं यस्य तस्य । इति पूर्वोक्तप्रकारैः षऋतुयोग्य क्रीडनैः । वर्षासु लवणममृतं शरदि जलं गोपयश्च हेमन्ते । शिशिरे चामलकरसो घृतं वसन्ते गुडश्रान्ते ॥ १ ॥ इत्यादिभिश्च कै कैर्न तहृदः अपि तु सर्वैर्हृतहृद ॥ ७३ ॥