________________
२२४) श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ कलहगाथावैरेचाटुसूत्रमन्त्रपदात् ।५-१-१०३ । इ. सू. कृग्धातोः टः टिल्वात् डी ) प्रभाया कान्तेर्ह्रासोनाशस्तं करोतीत्येवंशीला तां तेजोनाशकरों दुर्दक्षिणाशां दुष्टाचासौ दक्षिणाशा च तां विमोच्य मोचयित्वा अंशु सूर्य उत्तरासङ्गं उत्तरस्यादिश' सङ्गस्तं अचीकरत् कारयतिस्म । किंलक्षणमंशुं दीप्तिकरं (हेतुतच्छीलानुकूलेऽशब्दश्लोककलह-त् । ५--१-१०३ । इ. सू. कृग्धातोः टः ।) दीप्तिं करोतीत्येवंशीलस्तं दीप्तकरमिति पाठे दीप्तौ दीप्ता वा करौ हस्तौ कराः किरणा वा यस्य तम् ॥ ६९ ॥ प्रभौ प्रसुप्ते निशि शीतवश्यं, यदम्बु कम्बुच्छवि बन्धमाप | जाग्रतादिष्ट इवाहि तेन, भानुः स्वभावं स्वकरैर्निनाय ॥ ७० ॥
( व्या० ) प्रभाविति || कम्बुच्छवि कम्बुचत् च्छविः कान्तिर्यस्य तत् शंखसदृशं निर्मलं यद् अम्बु जलं निशि रात्रौ प्रभौ ) यद्भावो भावलक्षणम् । २-२-१०६ । इ. सू. - प्रभौ इत्यत्र भावलक्षणा सप्तमी । ) श्री ऋषभस्वामिनि प्रसुप्ते सति शीतवस्थं शीतस्य वश्यं सत् बन्धमाप भानु' सूर्यस्तज्जलं अह्नि दिवसे स्वस्थ करास्तैः किरणैर्हस्ते व स्वभावं स्वस्य भावस्तं स्वप्रकृतिं निनाय नीतवान् । उत्प्रेक्षते - तेन भगवता जाग्रता सता जागतति जाग्रत् तेन आदिष्ट इव ॥ ७० ॥
शीतेन सीदत्कुसुमासु युष्मा स्वर्चास्य देवस्य मदेकनिष्ठा । इति स्फुटत्पुष्परदा तदानीं, शेषा लताः कुन्दलता जहास ॥ ७१ ॥
( व्या० ) शीतेनेति । कुन्दलता कुन्दनाम्नोलता वल्ली तदानीं तस्मिन् शिशिरत शेषा लता इति अमुना प्रकारेण जहास किंलक्षणा स्फुटत्पुष्परदा स्फुटन्ति च तानि पुष्पाणि च तानि पुष्पाण्येव रदा दन्ता यस्याः सा । इतीति किं युष्मासु गीतेन सीदत्कुसुमासु सीदन्ति कुसुमानि यासान्तास्तासु अस्य देवस्य अर्चा पूजा मदे - ( त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् । २-१-११ । इ. सू. अस्मदः मोदेश' | ) कनिष्ठा मयिएव एका निष्ठा यस्या' सा मदेक निष्ठा वर्तते ॥ ७१ ॥