________________
भीजैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६ (२२३
( व्या० ) मनागिति । शरदा मदाढ्यैः मदेन आढ्यानि तैः मदपरवशवद्भिर्यैः पद्मे परमेश्वरस्य श्री ऋषभप्रभो मनाक् स्तोकतरां मुखश्री मुखस्य श्री शोभा जिहीर्षिता हर्तु वाञ्छिता । एषु पद्मेषु अन्तं विनाशं मन्तोरपराधस्य फलं विधाय कृत्वा प्रशलतु हेमन्तर्तुः एनं भगवन्तं भेजे । शरदि पद्मानि सश्रीकानि हेमन्ते च दान्ते इति भाव ॥ ६६ ॥
भृशं महेलायुगलेन खेला - रसं रहस्तस्य विलोकमाना ।
1
पौपी पुपोषालसतां गतौ यां, निशा न माद्यापि निवर्ततेऽस्याः ६७ ( व्या० ) मृशमिति । पौषी ( तस्येदम् । ६-३ - १६० । इ. सू. इदमर्थे भर्तुसन्ध्यादेरण् । ६-३-८९ । इ. सू. अण् अणन्तत्वात् डी: 1) निशा पौषमाससंबंधिनी रात्रिर्गतौ गमने यामलस्तां अलसस्य भावस्तामालस्यं पुपोष । सा अलसता अस्या निशायाः अद्यापि न निवर्तते । किं कुर्वाणा भृशं अत्यर्थ तस्य भगवतो महेलायुगलेन महेलयो युगलं तेन रह एकान्ते खेलारसं खेलाया - रसस्तं क्रीडारसं विलोक्रमाना विलोकते इति विलोकमाना ॥ ६७ ॥ नक्तं जगत्कम्पयतो हसन्ती, या शीतदैत्यस्य बलं विभेद | नेतुः पुरःस्थोचितमासचक्रा, सा कृष्णवर्त्माश्रयतां बिभर्तु ॥ ६८ ॥
(०या० ) नक्तमिति । या हसन्ती सघडीका नक्तं रात्रौ जगत् भुवनं `कम्पयतः कम्पयतीति कम्पयन् तस्य शीतदैत्यस्य शीतमेवदैत्यस्तस्य बल सामर्थ्यं विभेद भिनत्तिस्म । सा हसन्तो आप्तचका आप्तं चक्रं यया सा सती नेतु स्वामिनः पुरःस्था पुरः तिष्ठतीति उचितं युक्तं कृष्णवर्त्माश्रयतां कृष्णवर्मा अग्निस्तस्य आश्रयतां पक्षे बिभर्तु कृष्णश्चक्रधरो दैत्यभेत्ता च भवति कृष्णो बलानुजस्तस्य चर्म मार्गस्तस्याश्रयतां बिभर्तु ॥ ६८ ॥
अथ प्रभाद्दासकरीं विमोच्य, दुर्दक्षिणाशां शिशिरर्तुरंशुम् । अचीकरद्दीप्तिकरं प्रणन्तु - मिवोत्तरासङ्गमसङ्गमेनम् ॥ ६९ ॥
( व्या० ) अथेति । अथ अनन्तरं शिशिरर्तुः असङ्ग न विद्यते सङ्गो यस्य तं एनं भगवन्तं प्रणन्तुमिव प्रभा ह्रासकरी (हेतुतच्छीलानुकूलेऽशब्दश्लोक