________________
२२२) श्रीजेनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् सर्गः ६ ॥ प्रबोधयतीति तथा कमलसमूहं विकासयन्त्या विधुं चन्द्रं इद्रयन्त्या समृद्धं कुर्वत्या । कस्मात् अस्यभगवतः अभिषेकार्चनवत्रदास्याधिकारत अभिपेकश्च स्नानं अर्चनं च पूजनं वक्रस्य मुखस्य दास्यं च तेषु अम्बुप्रमुखाणामधिकारात् ॥ ६३॥
पङ्केर्धनोपाधिभिराकुले प्राक्, लोके तिरोभावमुपागतो यः । अहो स हंसः सहसा प्रकाशी- बभूव भास्वन्महसा विपङ्के ॥ ६४ ॥
( व्या० ) पङ्केरिति । यो हंसः प्राक् पूर्वं लोके तिरोभावं अदृश्यत्वमुपागत' । किंलक्षणे लोके घनोपाधिभि घनाः मेघा उपाधयो येषां ने तैः मेघहेतुकैर्बहुकारणैर्वा पचैः कर्दमै पापैर्वा आकुले अहो इति आश्चर्ये स हंसः पक्षे आत्मा वा भास्वन्महसा भास्वतः सूर्यस्य महस्तेजस्तेन सूर्यतेजसा दीप्तज्ञानेन वा विपडूके विगतः पङ्को यस्मात् तस्मिन् सति प्रकाशीत्रभूव ( कृभ्वस्तिभ्यां कर्मकर्तृभ्यां प्रागतत्तत्वेच्चि । ७-२-१२६ । इ. सू प्रकाश शब्दात् त्रिः । ईश्र्वाववर्णस्थानव्ययस्य । ४-३ - १११ । इ सू. ईकार । न प्रकाशः अप्र काशः अप्रकाश· प्रकाश बभूव इति प्रकाशीबभूव । ) ॥ ६४ ॥ करैः श्रमच्छेदकरैः शरीर-सेवां मणीकुट्टिमशायिनोऽस्य । विधुर्विविके विदधत्प्रसाद - पूर्वापूर्वी श्रियमाप युक्तम् ॥ ६५ ॥
•
( व्या० ) करैरिति । विधुश्चन्द्रः अस्य भगवतो मणिकुट्टिमशायिनः (अजातेः शीले । ५-१-१५० । इ. सू शीलेऽर्थे शोधातो णिन् प्रत्ययः । ) मणिकुहिमे शेते इति तस्य मणिखचित भूमिगायिनः सत विविक्ते विजने श्रमच्छेदकरैः हितुतच्छोलानुकूलेऽशब्दश्लोक कलह गाथावैरचाटुसूत्रमन्त्रपदात् । ५-१-१०३। इ. सू. कृग्धातो. टप्रत्ययः । ) श्रमस्यच्छेदं कुर्वन्तीत्येवशीलास्तै करैः किरणैहस्तैर्वा शरीरसेवां शरीरस्य देहस्य सेवा तां विदधत् विदधातीति सन् प्रसादपूर्वा प्रसादः पूर्वो यस्या: सा तामपूर्वा न पूर्वा अपूर्वा तां श्रियं युक्तमाप प्राप ॥ श्रीचन्द्रे वसतीति प्रसिद्धि ॥ ६५ ॥
मनाग् मुखश्रीः परमेश्वरस्य, जिहीर्षिता यैः शरदा मदाढ्यैः । विधाय मन्तोः फलमन्तमेषु, पद्मेषु भेजे प्रशलर्तुरेनम् ॥ ६६ ॥