________________
श्रीजैनकुमारसम्भवाख्य महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६(२२१
असौ वहिहिकुलेन क्लस, मृदङ्गवद्गर्जति वारिवाहे । निभालयन्नाटयमदान्मुदा तां, दृशं धनाढयैरपि दुर्लभा या ॥६१॥
(या०) असाविति । असौ भगवान् बहिर्मुदङ्गवत् ( स्यादेरिये । ७१-५२ । इ. सू तुल्येऽर्थे मृदङ्गशब्दात् वत् प्रत्यय ।) मृदङ्गन तुल्यं मृदगवत् पारिवाहे (कर्मणोऽण् । ५-१-७२ । इ सू. वारिपूर्वकवहधातो. अण् प्रत्ययः । ङस्युक्त कृता । ३-१-४९ । इ सू. तत्पुरुष समासः । ) मेधे गर्जति सति यत् बर्हिकुलेन बर्हाणि पिच्छानि सन्ति इति बर्हिणो मयूरास्तेषां फुलं तेन मयूरसमूहेन क्ल्स रचितं नाटयं मुदा हर्षेण निमालयन् तादृशमदात् । या हा धनाढयैरपि धनेनाढयास्तै श्रीमद्भिरपि दुर्लभा ( दुःस्वीषतः कृष्छाकृतप्र्थात् खल् । ५-३-१३९ । इ. सू. दुःखपूर्वक लभधातोः खलु दु खेन लभ्यते इति दुर्लभा ।) स्यात् ॥ ६१ ।। लोकोपकाराय स लोकनाथः, कृत्वा क्षमाभृद्भवसिन्धुरोधम् । तदा तदभ्यासवशाद्विधत्ते-ऽद्यापि क्षमाभृद्भवसिन्धुरोधम् ।। ६२ ॥
(व्या०) लोक इति । स लोकनाथ लोकानां जनानां नाथ स्वामी तदा तस्मिन्नवसरे लोकोपकाराय लोकानां मनुष्याणामुपकारस्तस्मै क्षमाभृद्भवसिन्धुरोध क्षमा वसुधां बिभ्रतोति क्षमामृत' पर्वता तेभ्यो भवा उत्पन्ना. -या सन्धिवो नधस्तासां रोधो बन्धस्तं पर्वतोत्पन्ननदीबन्ध कृत्वा तदभ्यासवशात् तस्य अभ्यास स्तस्यवशस्तस्मात् अद्यापि क्षमा मुद्भवसिन्धुरीधं क्षमा बिभ्रतीति क्षमामृत. साध. वस्तेषां भव एव सिन्धु संसारसमुद्र तस्य रोधोबन्धस्तं विधत्ते करोति ॥६२॥ प्रसादयन्त्याम्बु पयोजपुञ्ज, प्रबोधयन्त्याविधुमिद्धयन्त्या । अस्याभिषेकाचनवक्त्रदास्या-ऽधिकारतोऽसौ शरदोपतस्थे ॥ ६३ ॥
(व्या०) प्रसाद इति । असौ भगवान् । शरदा उपतस्थे आश्रितः | किं कुर्व या शरदा । अम्बु जलं प्रसादयन्त्या प्रसादयतीति तया पयोजपुञ्ज पयसि जले जातानि पयोजानि कमलानि तेषां पुञ्जः समूहरतं प्रबोधयात्या