________________
२२०) श्री जैनकुमारसम्भवाख्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः ६
सितवल्लीं तस्याः सुमानि पुष्पाणि तेषां श्रेणयस्ताभिः सुगन्धिः शय्या यस्य सः उदप्रसौ० पुनः श्रीखंड लेपावृतचन्द्रपादस्पर्श' श्रीखंडस्य चन्दनस्य लेपः तेन आवृतः अन्तरितः: चन्द्रस्य पादानां किरणानां पक्षे चरणानां स्पर्शो यस्य सः श्रीखंडलेपा० ॥ ५८ ॥ पुष्ट्यर्थमीशध्वजतैकसद्म- ककुद्मतः किं जलभृअलौधैः । उदीत तृण्यामवनीं समन्ता - द्वितन्वती प्रावृडथ प्रवृत्ता ॥ ५९ ॥
:
( व्या० ) पुष्टि इति । अथानन्तरं प्रावृट् (कुत् संपदादिम्य: किपू 1५३ - ११४ । इ. सू. प्रपूर्वकवृषघातोः स्त्रियां किप् । गतिकारकस्य नहिवृति वृषि व्यधिरुचिसहितनौकौ । ३-२-८५ । इ. सू. गतिसंज्ञकस्य अस्य दीर्घः । प्रकर्षेण वर्षन्ति मेघा अस्यां प्रावृट् 1) वर्षा ऋतुः प्रवृत्ता किं कुर्वती जलभृज्जलौघैः जलानि बिभ्रतीति जलभृतो मेघास्तेषां जलानि तेषामोघाः समूहास्तै. मेघसत्कजलसमूहैः समन्तात् सर्वतः उदीततृण्यां तृणानां समूहस्तृण्या (पाशादेश्चल्यः । ६-२-२५ ा इ. सू. समूहे ऽर्थे तृणशब्दात् ल्यप्रत्ययः ।) उदीता उद्गता तृण्या तृणसमूहो यस्यां सा तामवन पृथ्वों वितन्वती विस्तारयन्ती । किमर्थ किमिति ईशव्यजतैकसनककुभतः ईशस्य स्वामिनो ध्वजताया एकं सभ स्थानं य ककुभानू (नोम्र्म्यादिभ्यः । २-१-९९ । इ. सू. ककुभान् इत्यत्र न मतोर्मस्य वः ककुद् अस्ति अस्य इति ककुभान् ।) वृषभस्तस्य पुष्ट्यर्थम् ॥ ५९ ॥ या वारिधारा जलदेन मुक्ताः - सान्द्राः शिरस्यस्य बहिर्विहारे । असस्मरंस्ता हरिहर कुंभ - नीराभिषेकं शिशुतानुभूतम् ॥ ६० ॥
( व्या० ) या इति । जलदेन जलानि ददातीति तेन मेघेन अस्य भगवतः शिरसि शीर्षे या वारीघाराः वारीणां जलानां धाराः सान्द्रा अतिनिबिडा: वहिविहारे मुक्ता ता वारिधाराः शिशुतानुभूतं शिशोर्भावः शिशुता बाल्यं तथा जन्माभिषेकावसरे अनुभूतस्तं हरिहस्त कुंभनीराभिषेकं हरेरिन्द्रस्य हस्तः करः तस्मिन् कुंभः कलशतस्य नीरं तेनाभिषेकस्तं इन्द्रसत्ककर कलश जलाभिषेकं असस्मरन् ( स्मृदृत्वरप्रथश्रदस्त स्पशेरः । ४-१-६५ । इ. सू. यन्तस्मारिधातोः पूर्वस्य अकारस्य अकारादेशः न इकारादेशः । ) स्मारयन्ति स्म ॥ ६० ॥